Book Title: Pethadkumar Charitra
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 234
________________ गन्तव्यं नगरशतं विज्ञानशतानि शिक्षितव्यानि । भूपतिशतं च सेव्यं स्थानान्तरितानि भाग्यानि ॥३७॥ न निमित्तद्विषां क्षेमो न चायुर्वैधकद्विषाम् । न श्री तिद्विषां धर्म-द्विषामेतत्रयं तु न ॥३८॥ काल-दिगास्पद-चेष्टाविशेषमासाद्य खग-खादीनि । अशुभानि शुभानि शुभान्यशुभानि भवन्ति शकुनानि ॥३९॥ पञ्चत्वं ननु मूर्खत्वं, जीवितं शास्त्रवेदिता। उभयोरन्तरं ज्ञात्वा, यदिष्ट तत्तु गृह्यताम् ॥४०॥ छाया मे न तथा वृथा च कुसुमस्तोमस्तथा नोत्रता शाखाश्रीन च तादृशी फलभरभ्राजिष्णुता दूरतः। निर्गुण्डीति विवेश विघ्नहतये वैश्वानरं सादरं कर्तव्यो झुपकार एव कृतिना दग्ध्वाऽपि देहं निजम् ॥४१॥ नालोकितः क्व च न कर्णपथं च नीतः, के नापि काञ्चन-पिशङ्गन्तनुः कुरङ्गः। तस्य त्वचा तदपि कञ्चु कमाचकाङ्क्षत्, सीता विनाशसमये विपरीतबुद्धिः ॥४२॥ नास्ये सर्पस्य रुधिरं, न च दष्ट कलेवरे। न प्रजासु न भूपाले, धनं दुरधिकारिणि ॥४३॥ • • • • • • • • • • • • • • • • . . . . . . . . . . . . . . . . . . . २०७ સુભાષિતો Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252