Book Title: Pethadkumar Charitra
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 237
________________ सीमा खानिषु वज्रखानिरगदङ्कारेषु धन्वन्तरिः कर्णस्त्यागिषु देवतासु कमला दीपोत्सवः पर्वसु । ओंकारः सकलाक्षरेषु गुरुषु व्योम स्थिरेषु स्थिरा, श्रीरामो नयतत्परेषु परमं ब्रह्म व्रतेषु व्रतम् ॥५९॥ निर्दयत्वमहङ्कारस्तृष्णाक के शभाषणम् । नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः ॥६०॥ मिष्टा रागेषु वै राटी मिष्टा हारिर्दुरोदरे । मिष्टं रोषणकं स्नेहे मिष्टा मारिर्विरोधिनि ॥ ६१ ॥ आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छे दो द्विजन्मनाम् । पृथक् शय्या च नारीणामशस्त्रवध उच्यते ॥ ६२॥ जूएण जुव्वणेण य दासीसंगेण धुत्तमित्तेण । उब्भेउ अंगुलिं सो अवसाणे जो न हु विगुत्तो ॥ ६३॥ चौराणां धार्मिकाणां च वैरिणां प्राप्तवैरिणाम् । परस्त्रीपार्श्वगानां च, विस्तरः स्वार्थघातकः ॥ ६४ ॥ चौरेष्वङ् कु रिता समुत्सृतदला वैश्येषु वेश्याजने सम्यक् पल्लविता गता जरठतां द्यूतप्रियेषु द्रुतम् । वार्ताजीविषु पुष्पिताऽथ कथकालापेषु सच्छायता मेत्याsसत्यलता समुद्रतफलाभोगा नियोगिष्वभूत् ॥ ६५॥ પેડફમાર ચરિત્ર Jain Education International For Private & Personal Use Only ૨૧૯ www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252