________________
गन्तव्यं नगरशतं विज्ञानशतानि शिक्षितव्यानि । भूपतिशतं च सेव्यं स्थानान्तरितानि भाग्यानि ॥३७॥
न निमित्तद्विषां क्षेमो न चायुर्वैधकद्विषाम् । न श्री तिद्विषां धर्म-द्विषामेतत्रयं तु न ॥३८॥
काल-दिगास्पद-चेष्टाविशेषमासाद्य खग-खादीनि । अशुभानि शुभानि शुभान्यशुभानि भवन्ति शकुनानि ॥३९॥ पञ्चत्वं ननु मूर्खत्वं, जीवितं शास्त्रवेदिता। उभयोरन्तरं ज्ञात्वा, यदिष्ट तत्तु गृह्यताम् ॥४०॥
छाया मे न तथा वृथा च कुसुमस्तोमस्तथा नोत्रता शाखाश्रीन च तादृशी फलभरभ्राजिष्णुता दूरतः। निर्गुण्डीति विवेश विघ्नहतये वैश्वानरं सादरं कर्तव्यो झुपकार एव कृतिना दग्ध्वाऽपि देहं निजम् ॥४१॥
नालोकितः क्व च न कर्णपथं च नीतः, के नापि काञ्चन-पिशङ्गन्तनुः कुरङ्गः। तस्य त्वचा तदपि कञ्चु कमाचकाङ्क्षत्, सीता विनाशसमये विपरीतबुद्धिः ॥४२॥
नास्ये सर्पस्य रुधिरं, न च दष्ट कलेवरे। न प्रजासु न भूपाले, धनं दुरधिकारिणि ॥४३॥
• • • • • • • • • • • • • • • • . . . . . . . . . . . . . . . . . . . २०७
સુભાષિતો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org