________________
श्रुत्वा दुर्वाक्यमुच्चैर्हसति मुषति च स्वीयमानेन लोकं, द्वयर्थं गृह्णाति पण्यं बहुकमिति वदन्नर्धमेव प्रदत्ते । स्वीयान्यायेऽपि पूर्वं व्रजति नृपगृहं लेख्यके कूटकारी, मध्ये सिंहप्रतापः प्रकट मृगमुखः स्याद्वणिक् कूटप्रष्ठः ॥१५॥ प्रत्यक्षार्पितवस्तु संशयकरो गूढार्पितापह्नवं, कर्ता लाभगृहास्तिमुख्यमसकृत्पृष्टोऽति नो जल्पति । लोभित्वाज्जठरेऽपि वश्चनपरो वक्ति व्ययं स्वल्पमप्यस्वल्पं भृशभीरुषु प्रथम इत्यादिस्वरूपो वणिक् ॥ १६ ॥
धन- कण - काञ्चन- परिजन - तनुरूपाऽढ्येषु पञ्चधा लक्ष्मीः । सैव गजभूमिसहिता सप्ताङ्गा भूभृतां भवति ।।१७।।
भिउडी अद्धालो अण- मुच्चा दिट्ठी पर मुहं वयणं । मोण कालविलंवो, नक्कारो छव्विहो होइ ॥ १८॥ दन्तिदन्ताविवोच्चानां गीर्निर्गत्य न चाविशेत् । कूर्भग्रीवेव नीचानां निर्गताऽपि विशेत् पुनः ॥ १९ ॥ या सुप्रवृत्तिः प्रथमं प्रवृत्ता, पाश्चात्यपापैर्न हि लुप्यते सा । शवास्थिकूटैर्निभृतं भृताऽपि, भागीरथी पुण्यतमैव लोके ॥२०॥
सन्ति नैके ऽपकीर्तिदाः ।
सूनुसेवक शिष्याद्याः, दुरापास्ते तु ये तात - स्वामिगुर्वादिकीर्त्तये ॥ २१ ॥
પેથડકુમાર ચરિત્ર
Jain Education International
For Private & Personal Use Only
૨૦૪
www.jainelibrary.org