Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 9
________________ ॥ श्रीआदिनाथाय नमः ॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ श्रीवर्धमानस्वामिने नमः ॥ ॥ श्रीगौतमस्वामिने नमः ॥ ऐं नमः ॥ ॥ श्रीसुगृहीतनामधेयश्रीहरिभद्रसूरीश्वरेभ्यो नमः ॥ श्रीआत्म-कमल-वीर-दान-प्रेम-रामचन्द्र-महोदय-ललितशेखर-महाबलपुण्यपाल-हेमभूषण-बोधिरत्नसूरीश्वरेभ्यो नमः ॥ शुभपरिचयः प्रस्तुयते । आगमगगनस्फुरद्दिव्यबोधांशुमालि-श्रेष्ठागमनिपुण-सुविहितशिरोमणि-याकिनीमहत्तरासूनुश्रीभवविरहाचार्यहरिभद्रसूरिभिः रचितेषु चतुर्दशशतप्रकरणेषु रत्नसन्निभं पञ्चाशकप्रकरणम् । प्रस्तूयते संशोधितटीका, कारिता पूज्यशास्त्रकारपरमर्षियशोभद्रसूरीश्वरैः । तस्याः संशोधनं संपादनञ्च परिचायत। "प्रतिपरिचयः" जेसलमेरतीर्थस्थित आचार्यश्रीजिनभद्रसूरिताडपत्रीयग्रन्थभण्डारतः २११ क्रमाङ्किता झेरोक्षप्रतिः संशोधनाय प्राप्ता । प्रति लिखितेयं विक्रमसंवत् ११२१ । (१८-४६) अष्टादशतमभिक्षुप्रतिमापञ्चाशकस्य षट्चत्वारिंशत्तमी गाथाप्रभृतिटीका प्राप्यते । ग्रन्थान्ते च प्रशस्तिरेवम् - कृतिरियं श्रीश्वेताम्बराचार्ययशोभद्रस्येति । संवत् ११२१ ज्येष्ठसुदि ११ बुधदिने ॥छ। श्रीरस्तु ॥ जसोधरेण लिखितम् ॥ अनुग्रन्थप्रशस्तेः विंशतिश्लोकप्रमाणा पुष्पिका ग्रन्थलेखयित्रोदृश्यते, तस्य संक्षेपः-चन्द्रकुले चन्द्रांशुमद्धवलगुण आचार्यश्रीजिनेन्द्रसूरिभूत् । तत्पट्टोत्तमशिष्याचार्यश्रीजिनचन्द्रसूरिरभूत् । अन्योऽपि भव्यसत्त्वप्रतिबोधैककुशलशास्त्रविशारदाचार्यः श्रीअभयदेवसूरिरभूत् । तद्विनेयो धर्मदृढपरिणामी उपाध्यायश्रीधर्मदेवोऽभूत् । लाटदेशे जिनभवनमण्डितं वडउद्र (वडोदरा ?) नगरम् । तत्र वास्तव्यो जीवादिपदार्थज्ञाता निर्मलबुद्धिः श्रीअम्मो श्रावकः । धर्मैकचित्ता दानधर्मदक्षा तस्य भार्या श्राविका होल्ला, धनधान्ययौवनमनित्यमिति ज्ञात्वा श्रुतभक्तिहेतु-श्रीपञ्चाशकग्रन्थटीकया सह लेखितम् । यावच्चन्द्रदिवाकरौ सुमेरु ग्रन्थप्रतिरियं जयतु । परम पूज्याचार्य श्रीकैलाससागरसूरि ज्ञानमन्दिरं यत् कोबातीर्थस्थितं तत्र (१००४८) क्रमाङ्किता प्रस्तुतग्रन्थप्रतिः, तत्र प्रशस्तिः-लेखन संवत् (१९४१) चैत्र वद अष्टमी दिने लिखिता महर्षि रत्नचन्द्र बृहन्नागोरी लुकागच्छे । जेसलमेरे चरमतीर्थकरप्रसादात् । उपरी परत प्रमाणे लिखी छै। रस्वदीर्घ अक्षरमात्रा की खोट होय तो दोसा नहीं है । श्रीभैरवप्रसादात् । वासी हमीर रहते है । दुहो - जब लग मेरु अडत(ग) है तब लग ससीहरसूर । जब लग पुस्तक ए सदा रहजो गुणभरपूर ॥ श्री श्री श्री श्री श्री

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 362