Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
विचारसारः
आ. प्रद्युम्नसूरिः उपदेशरहस्यः
उपा. यशोविजयः अध्यात्ममतपरीक्षा
उपा. यशोविजयः सामाचारी
उपा. यशोविजयः द्रव्यसप्ततिका
पू. लावण्यविजयः हितोपदेशमाला
आ. विजयानन्दसूरिः श्राद्धदिनकृत्यम्
आ. देवेन्द्रसूरिः धर्मसंग्रहः
उपा. मानविजयः श्रीपञ्चाशकप्रकरणस्य साधिकत्रिशतगाथासमुदायोऽन्येष्वनेकग्रन्थेषु दृश्यते । हारिभद्रीयवचनामृतं तत्पश्चिमवति विद्वद्भिर्महापुरुषैः वारं वारमापीय तद्वचनसुधाकिरः स्वग्रन्थेऽपि संगृह्य तत् श्रुतप्रवाहोऽस्मत्प्रभृति प्रवाहितः । सो गाथासमूहो विस्तरभयानात्र निदर्श्यते ।
अनेकानेकप्रयत्नान्तेऽपि टीका अपूर्णा । पूज्याचार्ययशोभद्रसूरिविरचिता पञ्चाशकप्रकरणस्य टीका ताडपत्रीयप्रतौ भिक्षुप्रतिमा (१८) पञ्चाशकस्य षट्चत्वारिंशद् गाथाप्रभृति प्राप्यते । अनेकग्रन्थविलोकनान्तेऽपि श्रीटीकाकारमहर्षिणा सम्पूर्णटीकासंरचनविषये शुद्धिर्न प्राप्ता । अतस्तदने शेषग्रन्थस्य टीकारूपेण अभयदेवीया वृत्तिः निरूपिता इति तु ध्येयम् ।
टीका-परिचयः - पूज्याचार्ययशोभद्रसूरिरचिता ताडपत्रीयटीका लेखिता वि. सं. ११२१ । अस्याः पुष्पिकायां नवाङ्गीकृत् श्रीअभयदेवसूरेर्नामोल्लेखोऽस्ति । श्रीनवाङ्गीटीकाकारेण वि. सं. ११२४ धवलक्कपुरे धनपतिश्रीबकुल-बन्दिकवसत्यां पञ्चाशकप्रकरणोपरि ८७५० श्लोकप्रमाणा बृहद्वृत्ति: समाप्ति प्राप्ता । तस्य श्लोकः
"चतुरधिकविंशतियुते वर्षे सहस्र शते च सिद्धेयम् । धवलक्कपुरे वसतौ धनपत्योः बकुल-बन्दिकयोः ॥ प्रशस्तिश्लोकः ॥
श्रीनवाङ्गीटीकाकारेण स्वकीयवृत्तौ अनेकस्थलेषु “अन्ये तु", "केचिद् इति" "इत्यन्ये" इत्यादिनाऽऽचार्यश्रीयशोभद्रसूरिवचनांशवो गाथादीनामर्थतया, पाठभेदतया व्याख्यातया च सङ्ग्राहिताः । इदृशः तुल्यपाठाः कति ? इति जिज्ञासुना मया द्वयोवृत्योरध्ययनं कुर्वता यावन्ति तुल्यपाठस्थानानि लब्धानि तत्सर्वाण्यपि "अन्ये तु" सञ्जके परिशिष्टे सगृहीतानि वर्तन्ते । तत्रत एव जिज्ञासुभिर्द्रष्टव्या ।
प्रायेण बृहतॄत्यनुसारेण लघुवृतेः संरचना भवति । यथा श्रीआवश्यकहारिभद्रीयबृहतॄत्यनुसारेण श्रीमाणिक्यशेखरसूरिणा विहिता लघुवृत्तिः । किन्तु प्रकृते किञ्चिद् विशेषः समस्ति । लघुटीकायाः
11

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 362