SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ विचारसारः आ. प्रद्युम्नसूरिः उपदेशरहस्यः उपा. यशोविजयः अध्यात्ममतपरीक्षा उपा. यशोविजयः सामाचारी उपा. यशोविजयः द्रव्यसप्ततिका पू. लावण्यविजयः हितोपदेशमाला आ. विजयानन्दसूरिः श्राद्धदिनकृत्यम् आ. देवेन्द्रसूरिः धर्मसंग्रहः उपा. मानविजयः श्रीपञ्चाशकप्रकरणस्य साधिकत्रिशतगाथासमुदायोऽन्येष्वनेकग्रन्थेषु दृश्यते । हारिभद्रीयवचनामृतं तत्पश्चिमवति विद्वद्भिर्महापुरुषैः वारं वारमापीय तद्वचनसुधाकिरः स्वग्रन्थेऽपि संगृह्य तत् श्रुतप्रवाहोऽस्मत्प्रभृति प्रवाहितः । सो गाथासमूहो विस्तरभयानात्र निदर्श्यते । अनेकानेकप्रयत्नान्तेऽपि टीका अपूर्णा । पूज्याचार्ययशोभद्रसूरिविरचिता पञ्चाशकप्रकरणस्य टीका ताडपत्रीयप्रतौ भिक्षुप्रतिमा (१८) पञ्चाशकस्य षट्चत्वारिंशद् गाथाप्रभृति प्राप्यते । अनेकग्रन्थविलोकनान्तेऽपि श्रीटीकाकारमहर्षिणा सम्पूर्णटीकासंरचनविषये शुद्धिर्न प्राप्ता । अतस्तदने शेषग्रन्थस्य टीकारूपेण अभयदेवीया वृत्तिः निरूपिता इति तु ध्येयम् । टीका-परिचयः - पूज्याचार्ययशोभद्रसूरिरचिता ताडपत्रीयटीका लेखिता वि. सं. ११२१ । अस्याः पुष्पिकायां नवाङ्गीकृत् श्रीअभयदेवसूरेर्नामोल्लेखोऽस्ति । श्रीनवाङ्गीटीकाकारेण वि. सं. ११२४ धवलक्कपुरे धनपतिश्रीबकुल-बन्दिकवसत्यां पञ्चाशकप्रकरणोपरि ८७५० श्लोकप्रमाणा बृहद्वृत्ति: समाप्ति प्राप्ता । तस्य श्लोकः "चतुरधिकविंशतियुते वर्षे सहस्र शते च सिद्धेयम् । धवलक्कपुरे वसतौ धनपत्योः बकुल-बन्दिकयोः ॥ प्रशस्तिश्लोकः ॥ श्रीनवाङ्गीटीकाकारेण स्वकीयवृत्तौ अनेकस्थलेषु “अन्ये तु", "केचिद् इति" "इत्यन्ये" इत्यादिनाऽऽचार्यश्रीयशोभद्रसूरिवचनांशवो गाथादीनामर्थतया, पाठभेदतया व्याख्यातया च सङ्ग्राहिताः । इदृशः तुल्यपाठाः कति ? इति जिज्ञासुना मया द्वयोवृत्योरध्ययनं कुर्वता यावन्ति तुल्यपाठस्थानानि लब्धानि तत्सर्वाण्यपि "अन्ये तु" सञ्जके परिशिष्टे सगृहीतानि वर्तन्ते । तत्रत एव जिज्ञासुभिर्द्रष्टव्या । प्रायेण बृहतॄत्यनुसारेण लघुवृतेः संरचना भवति । यथा श्रीआवश्यकहारिभद्रीयबृहतॄत्यनुसारेण श्रीमाणिक्यशेखरसूरिणा विहिता लघुवृत्तिः । किन्तु प्रकृते किञ्चिद् विशेषः समस्ति । लघुटीकायाः 11
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy