________________
संरचना बृहद्वृत्तेः पूर्वं समजनि तस्या नैकेंऽशाः बृहद्वृत्तौ तट्टीकारेण समुद्धृत्ता वर्तते संक्षिप्तविस्तरादिशैलीभिन्नतया द्वयोरध्ययनमावश्यकम् । लघुटीकाया वैशिष्टपूर्ण कतिपयपदानां भावानुवादो मया परिशिष्टे निवेशितः । ____एवम्, उपदेशग्रन्थचूडामणि-विद्वज्जनचकोरचन्द्र-पञ्चाशकप्रकरणस्य यशोभद्रीया लघ्वक्षरा विशदर्था टीका श्रीसङ्घकरकमले समर्प्यते ।
उपधानप्रतिष्ठा पञ्चाशकम् __ श्राद्धजनोचितस्य श्राद्धजनकरणीयस्य उपधानतपसि किं प्रयोजनम् ? इति प्रश्नस्य सुविहितशिरोमणिपूज्यपादहरिभद्रसूरिविरचित पञ्चाशद्गाथाप्रमिते उपधानप्रतिष्ठापञ्चाशकप्रकरणे तर्कागमपरिपूर्ण समाधानं लभ्यते । ___ जेसलमेरताडपत्रीयज्ञानभाण्डागारे त.ता.१ प्रते: अनुक्रमसूचिपत्रे "विंशतितमं उपधानप्रतिष्ठापञ्चाशकः" इति नामोल्लेखः प्राप्यते । तथास्मिन् पञ्चाशकेऽन्तिमगाथायां "कुग्गह विरहेण" इति "विरह" पदेन श्रीहरिभद्रसूरीणामेतद्ग्रन्थकतृतया निश्चयो जायते । __मुनिश्रीजम्बूविजयझेरोक्षसूचिपत्रे प्रतावपि श्रीहरिभद्रसूरिनामोल्लेखो दृश्यते । तदेवम्-पञ्चाशक प्रकरणं (प्रा.) विभागः उपधानविधि पञ्चाशकप्रकरणं( २०) प्रा. गाथा (५०) नमिऊण वद्धमाणं इत्यादि पदम् । प्रतिक्रमाङ्क: पट्टण ज्ञानभाण्डागारे पा.ता.संघवी-१५३-२, स्तम्भनपुरज्ञानभाण्डागारे - खंता (१२९), अयं ग्रन्थः प्रथमपरिशिष्टे द्रष्टव्यः ।
परिशिष्टपरिचयः प्रकृतगन्थपरिसमाप्त्यनन्तरं परिशिष्टा दर्शिताः तदेवम् - १. उपधानप्रतिष्ठा-पञ्चाशकम् २. श्रीपञ्चाशकमूलगाथानामकारादिक्रमः ३. श्रीपञ्चाशकटीकान्तर्गतान्तरश्लोकानामकारादिक्रमः ४. पञ्चाशकवृत्तिगत गद्योद्धरणानामकाराद्यनुक्रमः ५. यशोभद्रीयवृत्तौ नोल्लेखिता मूलोट्टङ्किताः श्रीअभयदेवीयवृत्तितः समृद्धताः द्रष्टान्ताः ६. "अन्ये तु" - इत्यादिना श्रीअभयदेवीयवृत्तिसंगृहीताः श्रीयशोभद्रीयसूरिवचनांशवः ७. प्रकृतटीकाया महत्वपूर्णकतिपयपदानां भावानुवादः ।
परमोपकारीणां परिचयः * बाल्यकालतः स्वदर्शन-धर्मश्रावणादिना धर्मसंस्कारदातारः
अनन्तोपकारिव्याख्यानवाचस्पतिपूज्याचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराः * संयमधर्म-हितशिक्षाप्रदातारः संयमसुरभितजीवनरचयितारः समर्पणादिगुणग्रामधारकाः
12