Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________
एवमग्रेऽपि बोध्यम् । (३) यत्र यत्र पाठाः पूर्णतया न लब्धास्तत्र तत्रान्यग्रन्थाधारेण पाठा उद्धृत्य सम्पूर्णीकृताः।
(४) सन्दिग्धाऽस्पष्टपाठस्थानेऽस्माभिर्योग्यरीत्या स्पष्टीकृत्वा [ ] इति चिह्नमध्ये शुद्धपाठो निवेशितः। यथा २/८ मातापितृप्रभृतीनाम् - (मातृपितृप्रभृतीनाम्) ८/५० मन्त्रपूर्वक (मन्त्रपूर्वकेण) इत्यादि ।
मूलग्रन्थस्य पाठभेदाः श्रीयशोभद्रसूरिणा टीकायां मूलतया व्याख्यातपदस्य मूलतयैव स्थापिता पाठान्तरतया गृहीतस्य च मूलगाथाटीकासमाप्तौ स्थापिता । यथा १) १/१७ “वित्तादविरोहो' इति तु मूलम्, 'चित्तादविरोहो' इति तु पाठभेदः । २) ३/५ "लिंगाण' इति मूलम्, लिंगा ण इति पाठभेदः ।
श्रीपञ्चाशकमूले श्रीआगमगाथा श्रीपञ्चाशकग्रन्थकृता श्रीपञ्चाशकमूलत्वनैव श्रीआवश्यकौ-घ-दशवैकाकण्पिण्डनियुक्तिविशेषावश्यकभाष्याद्यनेकागमगाथा सङ्ग्रथिता साधुसामाचारी-प्रायश्चितविधिनिरूपणे श्रीआवश्यकनियुक्तिगाथाः, शीलाङ्गाऽऽलोचनाविधिनिदर्शने दशवैकालिकनियुक्तिगाथा: पिण्डविधिज्ञापने पिण्डनियुक्तिगाथाः, पुनः प्रायश्चित्तविधिवर्णने ओघनियुक्तिगाथाः, सामायिकविधिनिरूपणे विशेषावश्यकभाष्यगाथाश्च ग्रन्थिता । एवं पञ्चसप्ततिसङ्ख्यकागमगाथा: पञ्चाशकमूलत्वेन गृहीत्वा तत्र तत्रागमिकविषयः स्पष्टीकृतः ।
पञ्चाशकप्रकरणस्य तत्पश्चिमवर्ती ग्रन्थेषु प्रभावः यतिगृहिधर्मात्मकं प्रकरणमिदम् । स्वोपज्ञपञ्चवस्तुप्रकरणेऽस्य ग्रन्थस्य शतसङ्ख्यकसटीकगाथासमूहो ग्रन्थकृता समुद्धृतः । अन्येष्वपि स्वरचितग्रन्थेषु श्रावकविधिप्रकरण-उपदेशपदविंशतिविशिका-धर्मसङ्ग्रहण्यादीषु ग्रन्थेष्वस्य ग्रन्थस्यानेकगाथा दृश्यते ।
एवञ्च हारिभद्रीय वचनानि तत्पश्चाद्भाविभिरनेकमहापुरुषैः परमादरणीयतया स्वोपज्ञग्रन्थे गुम्फितानि । यथाशक्य संक्षिप्तसूचिका दर्श्यते । क्रमः ग्रन्थः
रचयिता योगशास्त्रम्
आ. हेमचन्द्रसूरिः प्रवचनसारोद्धारः
आ. नेमिचन्द्रसूरिः दर्शनशुद्धिप्रकरणम्
आ. देवभद्रसूरिः पाक्षिक सप्ततिका
आ. श्रीप्रभसूरिः चैत्यवन्दनभाष्यम्
आ. देवेन्द्रसूरिः प्रत्याख्यानभाष्यम्
आ. देवेन्द्रसूरिः जीवानुशासनम्
आ. देवसूरिः
worm 3४,
10

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 362