Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 13
________________ संरचना बृहद्वृत्तेः पूर्वं समजनि तस्या नैकेंऽशाः बृहद्वृत्तौ तट्टीकारेण समुद्धृत्ता वर्तते संक्षिप्तविस्तरादिशैलीभिन्नतया द्वयोरध्ययनमावश्यकम् । लघुटीकाया वैशिष्टपूर्ण कतिपयपदानां भावानुवादो मया परिशिष्टे निवेशितः । ____एवम्, उपदेशग्रन्थचूडामणि-विद्वज्जनचकोरचन्द्र-पञ्चाशकप्रकरणस्य यशोभद्रीया लघ्वक्षरा विशदर्था टीका श्रीसङ्घकरकमले समर्प्यते । उपधानप्रतिष्ठा पञ्चाशकम् __ श्राद्धजनोचितस्य श्राद्धजनकरणीयस्य उपधानतपसि किं प्रयोजनम् ? इति प्रश्नस्य सुविहितशिरोमणिपूज्यपादहरिभद्रसूरिविरचित पञ्चाशद्गाथाप्रमिते उपधानप्रतिष्ठापञ्चाशकप्रकरणे तर्कागमपरिपूर्ण समाधानं लभ्यते । ___ जेसलमेरताडपत्रीयज्ञानभाण्डागारे त.ता.१ प्रते: अनुक्रमसूचिपत्रे "विंशतितमं उपधानप्रतिष्ठापञ्चाशकः" इति नामोल्लेखः प्राप्यते । तथास्मिन् पञ्चाशकेऽन्तिमगाथायां "कुग्गह विरहेण" इति "विरह" पदेन श्रीहरिभद्रसूरीणामेतद्ग्रन्थकतृतया निश्चयो जायते । __मुनिश्रीजम्बूविजयझेरोक्षसूचिपत्रे प्रतावपि श्रीहरिभद्रसूरिनामोल्लेखो दृश्यते । तदेवम्-पञ्चाशक प्रकरणं (प्रा.) विभागः उपधानविधि पञ्चाशकप्रकरणं( २०) प्रा. गाथा (५०) नमिऊण वद्धमाणं इत्यादि पदम् । प्रतिक्रमाङ्क: पट्टण ज्ञानभाण्डागारे पा.ता.संघवी-१५३-२, स्तम्भनपुरज्ञानभाण्डागारे - खंता (१२९), अयं ग्रन्थः प्रथमपरिशिष्टे द्रष्टव्यः । परिशिष्टपरिचयः प्रकृतगन्थपरिसमाप्त्यनन्तरं परिशिष्टा दर्शिताः तदेवम् - १. उपधानप्रतिष्ठा-पञ्चाशकम् २. श्रीपञ्चाशकमूलगाथानामकारादिक्रमः ३. श्रीपञ्चाशकटीकान्तर्गतान्तरश्लोकानामकारादिक्रमः ४. पञ्चाशकवृत्तिगत गद्योद्धरणानामकाराद्यनुक्रमः ५. यशोभद्रीयवृत्तौ नोल्लेखिता मूलोट्टङ्किताः श्रीअभयदेवीयवृत्तितः समृद्धताः द्रष्टान्ताः ६. "अन्ये तु" - इत्यादिना श्रीअभयदेवीयवृत्तिसंगृहीताः श्रीयशोभद्रीयसूरिवचनांशवः ७. प्रकृतटीकाया महत्वपूर्णकतिपयपदानां भावानुवादः । परमोपकारीणां परिचयः * बाल्यकालतः स्वदर्शन-धर्मश्रावणादिना धर्मसंस्कारदातारः अनन्तोपकारिव्याख्यानवाचस्पतिपूज्याचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराः * संयमधर्म-हितशिक्षाप्रदातारः संयमसुरभितजीवनरचयितारः समर्पणादिगुणग्रामधारकाः 12

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 362