Book Title: Panchamrutabhishek Path
Author(s): Zaveri Chandmal Jodhkaran Gadiya
Publisher: Zaveri Chandmal Jodhkaran Gadiya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-[२]
दव्योष्टौ च जयादिका द्विगुणिता विद्यादिका देवताः। श्रीतीर्थकरमावकाच जनका यक्षाश्च यक्ष्यस्तथा । द्वात्रिंशत्रिदशाधिपास्तिथिसुग दिकन्यकाथाष्टधा, दिक्याला दश चैत्यमी सुरगणाः कुर्वन्तु मे (ते) मंगलम् ॥४॥ ये सर्वोषधऋद्धयः सुतपसो वृद्धिंगताः पंच ये, ये चाष्टांगमहानिमित्त कुशला येऽष्टाविधाश्चारणाः । पंचज्ञानघरास्त्रयोषि बलिनो ये बुद्धिऋद्धीश्वगः सौते सकलार्चिता गणभृता कुर्वन्तु मे ( ते ) मंगलभू ॥५॥ कैलासे वृषभस्य निवृतिमही वीरस्य पावापुरे, चंपायां वसुपूज्यसज्जिनपतेः संम्मेदशैलेतां । शेषाणामपि चोजयंतशिखरे नेमीश्वरस्याहतो, निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु मे (ते) मंगलम् ॥६॥ ज्योतिय॑न्तरभावनामरगृहे मेरो कुलाद्रौ तथा, जंबूशाल्मलिचैत्यशाखिषु तथा वक्षार रूप्यादिषु । इष्वाकारगिरौ च कुंदलनगे द्वीपे च नंदीश्वरे, शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु मे ते] मंगलम् ।। ७ ।। यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो । यो जातः परिनिष्कमेग विभवो यः केवलज्ञानभाक् । यः कैवल्यपुरप्रवेशमहिमा संभावितः स्वाभिः, कल्याणानि च तानि पंच सततं कुर्वन्तु मे (ते) मंगलम् ||८||
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42