Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 6
________________ महामुनिश्रीव्यासप्रणीतं - [ १ आदिखण्डे २ द्वितीयोऽध्यायः ] २३ २४ पाराशर्य परमपुरुषं विश्ववेदैकयोनिं विद्याधारं विपुलमतिदं वेदवेदान्तवेद्यम् । शश्वच्छान्तं स्वमतिविषयं शुद्धितेजोविशालं वेदव्यासं विततयशसं सर्वदाऽहं नमामि ॥ १९ नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ २० प्रवक्ष्यामि महापुण्यं पुराणं पद्मसंज्ञितम् । सहस्रं पञ्चपञ्चाशत्षभिः खण्डैः समन्वितम् ॥ २१ asssदावादिखण्डं स्यानमिखण्डं ततः परम् । ब्रह्मखण्डं च तत्पश्चात्ततः पातालखण्डकम् ।। २२ क्रियाखण्डं ततः ख्यातमुत्तरं खण्डमन्तिमम् । एतदेव महापद्ममुद्भूतं यन्मयं जगत् ॥ तद्वृत्तान्ताश्रयं तस्मात्पद्ममित्युच्यते बुधैः । एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम् || देवदेवो हरियेद्वै ब्रह्मणे प्रोक्तवान्पुरा । ब्रह्मा तु नारदायाऽऽह नारदोऽस्मद्गुरोः पुरः ॥ व्यासः सर्वपुराणानि सेतिहासानि संहिताः । अध्यापयामास गुरुर्मामतिप्रियमात्मनः ॥ तत्तेऽहं संप्रवक्ष्यामि पुराणमतिदुर्लभम् । यच्छ्रुत्वा ब्रह्महत्यादिपापेभ्यो मुच्यते नरः ।। सर्वतीर्थाभिषेकं च लभते शृणुते हि यः । श्रद्धया परया भक्त्या श्रुतमात्रेण मुक्तिदम् ॥ अश्रद्धयाऽपि शृणुते लभते पुण्यसंचयम् । तस्मात्सर्वप्रयत्नेन पद्मं श्रोत्रातिथी कुरु ॥ तत्राऽऽदिखण्डं वक्ष्यामि पुण्यं पापप्रणाशनम् । शृण्वन्तु मुनयः सर्वे सशिप्यास्त्वत्र ये स्थिताः ।। ३० इति श्रीमहापुराण पाद्म आदिखण्डं प्रथमोऽध्यायः ॥ १ ॥ २५ २६ २७ २८ २९ अथ द्वितीयोऽध्याय । सूत उवाच - १ २ ' आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः । ज्ञायते येन भगवान्परमात्मा सनातनः ॥ सृष्टेषु प्रलयादूर्ध्वं नाऽऽसीत्किचिद्विजोत्तमाः । ब्रह्मसंज्ञमभूदेकं ज्योतिर्वै सर्वकारकम् ।। नित्यं निरञ्जनं शान्तं निर्गुणं नित्यनिर्मलम् । आनन्दस्य पुरं स्वच्छं यत्काङ्क्षन्ति मुमुक्षवः || ३ सर्वज्ञं ज्ञानरूपत्वादनन्तमजमव्ययम् । अविनाशि सदास्वच्छमच्युतं व्यापकं महत् ।। संर्गकाले तु संप्राप्ते ज्ञात्वा तं ज्ञानरूपकम् । आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे ॥ तस्मात्प्रधानमुद्भूतं ततश्चापि महानभूत् । सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ प्रधानतत्त्वेन समं त्वचा बीजमिवाऽऽनृतम् । वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ त्रिविधोऽयमर्हकारी महत्तत्त्वादजायत । यथा प्रधानेन महान्महता स तथाssवृतः ॥ भूतादिस्तु विकुर्वाणः शब्दं तन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥ शब्दमात्रं तथाssकाशं भूतादिः स समाहणीत् । शब्दमात्रं तथाऽऽकाशं स्पर्शमात्रं ससर्ज ह १० बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समादृणात् ॥ ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह। ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ।। ་ ८ દ્ १४ १२ ५ ६ १ ख. अ. ंशत्पश्चख ं । २ ख. अ. 'त्राऽऽदा सृष्टिखण्डं स्याद्धमिखण्ड ततः परम् ।। स्वर्गखण्ड च तत्पश्चात्ततः पाता लखण्डकम् ॥ पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम् ॥ ए । ३ ख ज 'अद्भु ४. ड. "म्यमुत्तमम् । ५ ड ढ सः | ६ क. न्दमापरं । ७ ख . पुच्छं । ८ झ 'स्वस्थम । ९ ड सङ्गका । १० ड वीजं त्रिरा । ११ भूतादि ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 387