Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 12
________________ महामुनिश्रीव्यासप्रणीतं [१आदिखण्डेजम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी । अचिन्त्या दिव्यसंज्ञा सा प्रभावैश्व समन्विता६६ उपासते यत्र सत्रं सहस्रयुगपर्यये । दृश्याऽदृश्या च भवति तत्र तत्र सरखती ॥ ६७ एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः । रक्षांसि वै हिमवति हेमकूटे च गुह्यकाः ॥ ६८ सर्पा नागाश्च निषधे गोकर्ण च तपोवनम् । देवासुराणां सर्वेषां श्वेतः पर्वत उच्यते ॥ ६९ गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा । शृङ्गवांस्तु महाभागा देवानां प्रतिसंचरः॥ ७० इत्येतानि महाभागाः सप्त वषोणि भागशः। भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ ७१ तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा । अशक्यं परिसंख्यातुं श्रद्धेया तु बुभूपता ॥ ७२ यां तु पृच्छय मां विमा दिव्यामेतां शशाकृतिम् । पार्थे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ॥७३ कर्णे तु नागद्दीपश्च काश्यपद्वीप एव च । कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः ॥ एतद्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ।। ७४ इति श्रीमहापुराणे पाद्म आदिखण्डे तृतीयोऽध्यायः ॥ ३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१३८ अथ चतुर्थोऽध्यायः । ऋषय ऊचु:मेरोरथोत्तरं पश्चात्पूर्वमाचक्ष्व सूत नः । निखिलेन महायुद्धे माल्यवन्तं च पर्वतम् ॥ १ सूत उवाचदक्षिणेन तु नीलस्य मेरोः पार्चे तथोत्तरे । उत्तराः कुम्वा विप्रा पुण्याः सिद्धनिपेविताः ॥ २ तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः । पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ ३ सर्वकामफलास्तत्र केचिदृक्षा द्विजोत्तमाः । अपरे क्षीरिणी नाम वृक्षास्तत्र द्विजोत्तमाः ॥ ४ ये क्षरन्ति सदा क्षीरं तत्र पञ्चामृतोपमम् । वस्त्राणि च प्रसूयन्ते फलेवाभरणानि च ॥ ५ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसंम्पर्शा निर्मलाश्च तपोधनाः॥ ६ देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः । शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः ॥ ७ मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः । तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥ ८ मिथुनं जायते काले समन्ताच्च प्रवर्धते । तुल्यरूपगुणोपतं समवेशं तथैव च ॥ एकमेवानुरूपं च चक्रद्वयसमं द्विजाः । निरामयाश्च ते लोका नित्यं मुदितमानसाः॥ १० दश वर्षसहस्राणि दश वर्षशतानि च । जीवन्ति ते महाभागा न चान्योन्यं जहन्युत ॥ ११ भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । तानिहरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥ १२ उत्तराः कुरवो विमा व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्व वक्ष्याम्यथ यथातथम् ॥ १३ तस्य मूर्धाभिषेकस्तु भद्राश्वस्य तपोधनाः । भद्रशालवनं यत्र कालाम्रश्च महाद्रुमः ॥ १४ कालाम्रस्तु महाभागा नित्यपुष्पफलः शुभः । द्रुमश्च योजनोत्सेधः सिद्धचारणसवितः ॥ १५ तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः । खियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ १६ चन्द्रवर्णाश्चतुर्वर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्राश्च नृत्यगीतविशारदाः ॥ १७ १ ८. 'नुषे । अ । २ क. देवर्षे ।।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 387