Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेभूमिरापस्तया वायुरनिराकाशमेव च । गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ ४ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । भूमेरेते गुणाः मोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥ ५ चत्वारोऽप्सु गुणा विमा गन्धस्तत्र न विद्यते । शब्दः स्पर्शश्च रूपं च तेजसोऽय गुणात्यः ६ अब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च । एते पञ्च गुणा विप्रा महाभूतेषु पञ्चसु ॥ ७ वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः । अन्योन्ये नातिवर्तन्ते साम्यं भवति वै तदा ॥ ८ यदा तु विषमीभावमाविशन्ति परस्परम् । तदा देहेर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ ९ आनुपूर्ध्या विनश्यन्ति जायन्ते चानुपूर्वशः । सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् ॥ १० यत्र यत्र हि दृश्यन्ते धावन्ति पञ्चभौतिकाः। तेषां मनुप्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ११ अचिन्त्याः खलु ये भावास्ताम तर्केण साधयेत् । सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुङ्गवाः॥ १२ परिमण्डलो महाभागा द्वीपोऽसौ चक्रसंस्थितः । नदीजलपरिच्छन्नः पर्वतैश्चाब्धिसंनिभैः ॥१३ पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा । वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान् ॥ १४ लवणेन समुद्रेण समन्तात्परिवारितः । यथा हि पुरुषः पश्येदादर्श मुखमात्मनः ॥ १५ एवं सुदर्शनो द्वीपो दृश्यते चक्रमण्डलः । द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् ॥ १६ सर्वौषधि समादाय सर्वतः परिवारितः । आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते ॥ १७
ऋषय ऊचुःउक्तो यस्य च संक्षेपो बुद्धिमन्विधिवत्वया । तत्त्वज्ञश्चासि सर्वस्य विस्तरं सून नो वद ॥ १८ यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे । तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्॥ एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत् ।।
सूत उवाच-- पागायता महामाज्ञाः षडेते रत्नपर्वताः । अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।। हिमवान्हेमकूटश्च निषधश्च नगोत्तमः । नीलश्च वैडूर्यमयः श्वेतश्च शशिसंनिभः ॥ सर्वधातुपिनद्धश्च शृङ्गवान्नाम पर्वतः । [*एते वे पर्वता विमाः सिद्धचारणसेविताः॥ २२ तेषामन्तरविष्कम्भो योजनानि सहस्रशः । तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः॥ २३ वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः । इदं तु भारतं वर्ष ततो हैमवतं परम् ॥ २४ हेमकूटात्परं चैव हरिवर्ष प्रचक्षते । दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ॥ . २५ पागायतो महाभागा माल्यवानाम पर्वतः। ] ततः परं माल्यवतः पर्वतो गन्धमादनः ॥ २६ परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः । आदित्यतरुणाभासो विधूम इव पावकः ॥ २७ योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः। अधस्ताचतुरशीतिर्योजनानां द्विजोत्तमाः ॥ २८ ऊर्ध्वमधश्च तिर्यक लोकानात्य तिष्ठति । तस्य पार्श्वप्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः॥२९ भद्रायः केतुमालश्च जम्बूद्वीपश्च सत्तमाः । उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ विहगः सुमुखो यस्तु सुपार्थस्याऽऽत्मजः किल।सवै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ३१ मेरुरुत्तममध्यानामधमानां च पक्षिणाम् । अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ ३२
प्रवपाश्चमो॥
*एतचिहान्र्तगतः पाठः ख. ड. च. अ. अ. ट. ढ. पुस्तकेभ्यो गृहीतः ।
१. 'स्वदर्शिभिः । २ झ. ट. 'स्तान्वित।।क. शीतयों।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 387