Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
महामुनिश्रीव्यासपणी
[ आदिखण्डेस प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः । संक्षेपो विस्तरश्चैव कर्ता कारयिता तया ॥ १७ पृयिव्यापस्तयाऽऽकाशं वायुस्तेजश्च सत्तमाः । स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १८
इति श्रीमहापुराणे पाद्म आदिखण्डे पञ्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१८१
अथ षष्ठोऽध्यायः ।
ऋषय ऊचु:यदिदं भारतं वर्ष पुण्यं पुण्यविधायकम् । तत्सर्व नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः॥ १
सूत उवाचअत्र ते कीर्तयिष्यामि वर्ष भारतमुत्तमम् । प्रियमित्रस्य देवस्य मनोवैवस्वतस्य च ॥ पृथोश्च प्राज्ञ वैण्यस्य तथेक्ष्वाकोर्महात्मनः । ययातेरम्बरीपस्य मान्धातुर्नहुषस्य च ॥ तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च । ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः । सोमस्य चैव राजर्षेदिलीपस्य तथैव च ॥ अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम् । सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ॥ ६ ततो वर्ष प्रवक्ष्यामि यथाश्रुतमहो द्विजाः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥ ७ विन्ध्यश्च पारियात्रश्च सप्तते कुलपर्वताः। तेषां सहस्रशो विप्राः पर्वतास्ते समीपतः॥ ८ अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः । अन्ये तु ये परिज्ञाता हस्वाहस्वोपजीविनः ॥ . आर्यम्लेच्छाश्च धर्मज्ञास्ते मिश्राः पुरुषा द्विजाः। नी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् १० गोदावरी नर्मदां च बहुदां च महानदीम् । शतटुं चन्द्रभागां च यमुनां च महानदीम् ।। ११ दृषद्वतीं विपाशां च विपाशां स्वच्छवालुकाम् । नदी वेत्रवतीं चैव कृष्णां वेणी च निम्नगाम् ।।१ इरावती वितस्तां च पयोणी देविकामपि । वेदस्मृतिं वेदशिरां त्रिदिवां सिन्धुलाकृमिम् ॥ १॥ करीषिणी चित्रवहां त्रिसेनां चैव निम्नगाम् । गोमती धूतपापां च चन्दनां च महानदीम् ॥ १.५ कौशिकी त्रिदिवां हृद्यां नाचितां रोहितारणीम् । रहस्यां शतकुम्भां च शरयूं च द्विजोत्तमाः१५ चर्मण्वती वेत्रवती हस्तिसोमां दिशं तथा । शरावतीं पयोणी च भीमां भीमरथीमपि ॥ १६ कावेरी वालुकां चापि वापी शतमलीमपि । नीवारां महितां चापि सुप्रयोगां तथा नदीम् ।। १७ पवित्रां कृष्णलां सिन्धुं वाजिनीं पुरुमालिनीम् । पूर्वाभिरामा वीरां च भीमां मालावती तथा १८ पलाशिनी पापहरां महेन्द्रां पाटलावतीम् । करीषिणीमसिक्नी च कुशवीरां महानदीम् ।। १० मरुत्वां प्रवरां मेना होरा घृतवतीं तथा । अनाकतीमनुणी च सेव्यां कापी च सत्तमाः ॥ १० सदावीरामधृष्यां च कुशचीरां महानदीम् । रथचित्रां ज्योतिरथा विश्वामित्रां कपिञ्जलाम् ॥ उपेन्द्रां बहुला चैव कुवीरामम्बुवाहिनीम् । वैनन्दी पिञ्जला वेणां तुङ्गवेगां महानदीम् ।। २२ विदिशां कृणवेगां च ताम्रां च कपिलामपि । धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् ॥ २३ शिप्रां च पिच्छलां चैव भारद्वाजी च निम्नगाम्। कौर्णिकी निम्नगां शोणां बाहुदामथ चन्द्रमाम् २४
१ क. नृपस्य । २ ख. अ. 'म् । नवव। ३ ड. झ. ट. 'ता दुःखादुःखाप । ४ ड. च. ढ. बाहुदां । ट. बहुदां । ५ च. श. चलुकां । ट. भालुकां। ख. ढ. चुलुकां । ६ ज. तापी । ७ ख. ड. च. झ. ढ. । हेमां ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 387