Book Title: Padmapurana Part 01 Author(s): Mahadev Chimnaji Apte Publisher: Anand Ashram View full book textPage 5
________________ ॐ तत्सद्रमणे नमः। महामुनिश्रीव्यासप्रणीतं पद्मपुराणम्। तत्राऽऽदिममादिखण्डम्। अथ प्रथमोऽध्यायः । नमामि गोविन्दपदारविन्दं सदेन्दिरानन्दनमुत्तमाढ्यम् । जगजनानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम् ॥ एकदा मुनयः सर्वे ज्वलज्ज्वलनसंनिभाः। हिमवद्वासिनः सर्वे मुनयो वेदपारगाः॥ . त्रिकालज्ञा महात्मानो नानापुण्याश्रमाश्रयाः । महेन्द्रागिरता ये च ये च विन्ध्यनिवासिनः॥ येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः । जाम्बुमार्गरता ये च [*ये च सत्यनिवासिनः ॥ : धर्मारण्यरता ये च दण्डकारण्यवासिनः । श्रीशैलनिरता ये च ] कुरुक्षेत्रनिवासिनः॥ । एते चान्ये च बहवः सशिप्या मुनयोऽमलाः । नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः॥ । तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः । आसनेषु विचित्रेषु वृष्यादिषु यथाक्रमम् ॥ ५ शौनकेन प्रदत्तेपु आसीनास्ते तपोधनाः । कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन् ॥ ८ कथान्तेषु ततस्तेषां मुनीनां भावितात्मनाम् । आजगाम महातेजाः सृतस्तत्र महाद्युतिः ॥ ९ व्यासशिष्यः पुराणज्ञो रोमहर्पणसंज्ञकः । तान्प्रणम्य यथान्यायं स तैश्चैवाभिपूजितः॥ १० उपविष्टं यथायोगं शौनकाद्या महर्पयः । व्यासशिष्यं सुखासीनं मूतं वै रोमहर्षणम् ॥ तं पप्रच्छुर्महाभागाः शानकाधास्तपोधनाः॥ । ऋपय ऊचुःपौराणिक महाबुद्धे रोमहर्षण सुव्रत । त्वत्तः श्रुता महापुण्याः पुरा पौराणिकीः कथाः ॥ १२ *सांप्रतं च प्रवृत्ताः स्म कथायां सक्षणा हरेः । स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ॥१३ पुनः पुराणमाचक्ष्व हरिवार्तासमन्वितम् । हरेरन्यकथा सूत श्मशानसदृशी स्मृता ॥ १४ हरिस्तीर्थस्वरूपेण स्वयं निष्ठनि तच्छ्नम् । तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय ॥ १५ कुन एतत्समुत्पन्नं केन वा परिपाल्यने । कस्मिल्लयं समभ्येति जगदेतच्चराचरम् ॥ १६ क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलांचयाः। नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः ॥ एतत्सर्व महाभाग कथयस्व यथाक्रमम् ॥ १७ सूत उवाचसाधु साधु महाभागाः साधु पृष्टं तपोधनाः । तं प्रणम्य प्रवक्ष्यामि पुराणें पद्मसंज्ञकम् ॥ १८ * एनश्चिमान्तर्गतः पाठः ख. हु. च. अ. ढ. इत्येतेष्वेव पुस्तकेषु दृश्यते । १ ख. ज. 'माख्यम् । ढ. 'माद्यम् । २. तु. स्मिनिलयम । ३ स. म. 'ब्रह्मसं।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 387