Book Title: Nyayabindu Tika Author(s): P I Tarkas Publisher: Nutan Mudranalay View full book textPage 6
________________ धर्मकीर्तिप्रणीतो न्यायबिन्दुः। आचार्यधर्मोत्तरविरचितटीकोपेतः । प्रथमः परिच्छेदः। ॥ ॐ नमः सर्वज्ञाय ॥ जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः । रागाद्यरातेः सुगतस्य वाचो मनस्तमस्तानवमादधानाः ।। सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तयुत्पाद्यते ॥१॥ सम्यग्ज्ञानपूर्विकेत्यादिनास्य प्रकरणस्याभिधेयप्रयोजनमुच्यते । द्विविधं हि. प्रकरगशरीरं - शब्दोऽर्थश्चेति । तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न निरूप्यते । आभिधेयं तु यदि निष्प्रयोजनं स्यात्तदा. तत्प्रतिपत्तये शब्दसन्दर्भोऽपि : नास्म्भणीयः स्यात् । यथा काकदन्तप्रयोजनाभावान्न तत्परीक्षा आरम्भणीया प्रेक्षावता । तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते । यस्मात्सम्यग्ज्ञानपूर्विका [२] सर्वपुरुषार्थसिद्धिः तस्मात्तत्प्रतिपत्त्यर्थमिदमारभ्यत इत्ययमत्र वाक्यार्थः । ___ अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् । अस्मिंश्चार्थे उच्यमाने सम्बन्धप्रयोजनाभिधेयान्युक्तानि भवन्ति । तथा हि – पुरुषार्थोपयोगि सम्यग्ज्ञानंPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 110