Book Title: Nandishenmuni Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 7
________________ नंदिषेण चरित्र स करी निजाश्रयदायकानां तेषां तापसानामेवाश्रमं दुर्जन इव बभंज. अहो! अयं मदोन्मत्तो गजोऽस्माभिर्लालितः पालितोऽपि कृतघ्न इवास्माकमेवाश्रमं विनाशयति, अतोऽस्य बंधनार्थ कोऽप्युपायः / कतुं युज्यते, इति विचिंत्य ते तापसा मिलित्वा श्रेणिकनृपपावे ययुः, कथयामासुश्च तस्य सेचनकगजस्य सर्वमपि स्वरूपं. तत् श्रुत्वा स श्रेणिकनृपोऽपि निजसैन्यं संना विचक्षणाघोरणैर्युतस्तं हस्तिनं धर्तुं वने गतः. आधोरणाश्च ते तं गजं वशीकर्तुंछलबलादिविविधोपायांश्चकः, परं स गजस्तैर्वशीकर्तुं न शक्यते. तदृष्ट्वा श्रेणिकनृपो निजहृदये विषण्णोऽभृत्. एवं निजतातं विषण्णीभूत विलोक्य नंदिषेणकुमारःस्वयं पितुराज्ञयातं गजं वशीकर्तुमुपस्थितः. तं नंदिषेणकुमारं निजसन्मुखं समायातं विलोक्योहापोहं कुर्वन् स गजो जातिस्मरणज्ञानं प्राप्तवान्. एवं जातजातिस्मृतिः स दंती निजपूर्वभवसंबंधिनं स्वामिनं विलोक्य निजौद्रत्यं परित्यज्य तत्रैव स्थिरीभृतस्तस्थौ. एवं निजवशीभृतं तं करिणं नंदिषेणो नीत्वाश्चर्यमग्नाय निजताताय श्रेणिकभूपाय तमर्पयामास. ततस्तं सेचनकं गजेंद्र पुरे नीत्वा श्रेणिकनृपो महोत्सवपूर्वकं पट्टहस्तिनं चकार, नंदिषेणकुमारमपि सविशेषPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20