Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ च क्षमयित्वा स देवो देवलोके ययो. एवं स नंदिषेणो महामुनिदशसहस्राही तीवं तपस्तप्त्वा साधु वैयावृत्त्यैकहृदयोऽन्यदाऽनशनं विधाय स्थितः, तदा सांतःपुरश्चक्री तस्य वंदनार्थ तत्र समागतः तस्य समृद्धिं दृष्ट्वा स नंदिषेणर्षिनिजमनसि चमत्कृतः. तच्चरणयोर्वदनं कुर्वतीनां चक्रवर्तिराजीनां सुकुमालमृदुकुंतलस्पर्शानुभवतः स्त्रीभोगसुखान्यभिलषन् स मुनिरिति निदानं चकार, अथाहमागामिनि भवेऽनेन तपसा भूरिश्रीवल्लभो भूयासं. अथैवं निदानयुतो मृत्वासो महाशक्रदेवलोके देवोऽमृत्. इतः सूर्यपूराभिधे नगरें,कवृष्णेनूपस्य सुभद्राख्या राज्ञी बभूव. तस्याः समुद्रविजयः, अक्षोभ्यः, स्तिमितः, सागरः, हिमावान् , अचलः, धरणः, पूरणः, अभिचंद्रश्चेति नव पुत्रा बभूवुः. ततः स नंदिषेण जीवदेयोऽपि देवलोकाच्युत्वा तस्या वसुदेवाभिधो दशमो पुत्रो जातः. पूर्वभवद्धनिदानप्रभावत स्तस्य सौभाग्यनामकोंदयेन दासप्ततिसहस्रमिताराश्योभवन्. ताभिः समं च स नानाप्रकारान् भोगविलासान् भुंक्तस्म. विस्तराच्च तत्संबंधो वसुदेवहिंडिनेमिचरित्रादिग्रंथादवसेयः. // इति श्रीद्वितीय नंदिषेणचरित्रं समाप्तम. // श्रीरस्तु //

Page Navigation
1 ... 17 18 19 20