Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
Catalog link: https://jainqq.org/explore/600414/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 00809000000000000009 // श्रीनंदिषेणमुनिचरित्रम् // // श्रीजिनायनमः॥ (गद्यबद्ध) (कर्ता-श्रोशुभशीलगणी) सने 1934 छपाची प्रसिद्ध करनार-पंडित श्रावक हीरालाल मगज (जामनगरबाळा) किंमत रु. 0-12-0 67 श्रीजैन भास्करोदय प्रिन्टिग प्रेसमा छाप्यु जामनगर. सर्वत् 1991 000000000000005C Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ // 1 // श्री जिनाय नमः॥ // श्रीचारित्रविजय गुरुभ्यो नमः // // अथ श्रीनदिषेणमुनिचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशीलगणी) (द्वित्तीयावृत्तिः) छपाची प्रसिद्ध करनार-पंडिन श्रावक हीरालाल हंसराज (जामनगरवाळा) कुर्वन्नुग्रं तपो नित्यं / दुष्टं कर्म विनिर्मितं // जीवो भिनत्ति तत्कालं / नंदिषेणमुनीशवत् // 1 // तथाहि-स्वर्गसंनिभं श्रीपुराख्यं पुरमासीत, तत्र मुखप्रियाख्यो द्विज एको वसतिस्म. अथैकदा नि जोदरपरणाय भिक्षार्थमेको भीमाख्यो दरिद्रपुरुषस्तस्य गृहे समाययो. तदा सा चेत्त्वं दासत्वमंगीकृत्य मदीयगृहे तिष्टसि, तदा ते नित्यं भोजनवस्त्रादि दास्यामि. भीमेनोक्तं भो | द्विजोत्तम ! तब दासत्वमहमंगीकरोमि, परं राद्धान्नशेष सर्वदा मह्यमेव देयं, यथा स्वेच्छयवाहं तस्य / Page #4 -------------------------------------------------------------------------- ________________ नंदिषण चरित्रं // 2 // राद्धानशेषस्योपयोगं करोमि. ततो द्विजेनापि तत्प्रतिपन्न. अथ स भीमः शुद्धभावेन तस्य द्विजस्य दास्यं कुर्वन्स्वाजीविका निर्वहति, द्विजार्पितं राद्धान्नशेषं च स नित्यं तपस्त्यादिसाधुभ्यः प्रयच्छति. एवमुपार्जितपुण्यपाथेयः स भीमः कियकालानंतरं मृत्वा देवलोके देवो बभूव. तत्र च दिव्यसुखान्यनुभूयायुःक्षये ततश्च्युक्त्वा मगधदेशे राजगृहे नगरे श्रेणिकाख्यस्य क्षोणीभूतो नंदिषेणाभिधः पुत्रो | जातः. स मुखप्रिय द्विजश्च मृत्वा भूरिषु भवेषु भ्रांत्वा वनमध्ये गजयूथे कस्याश्चित् करिण्या उदरेऽवा-18 | तरत्. क्रमेण तया करिण्या प्रसूतः स कलमो यौवनं प्राप्तो व्यचिंतयत्, अथात्र यूथे मदन्यः करी यूथनायको माभूदिति विचिंत्य यूथपतीभृतः स युवा करी करिणीभिः प्रसूतान् सर्वानपि गजकलभान है जन्मसमये एव मारयामास, करिणीश्च प्रसूता रक्षयामास. अथ तस्मिन् यूथे स्थितानां करिणीनां में मध्यादेका दक्षा गर्भिणी करिणी दभ्यो, यदेषो दुष्टो यूथाधिपतिर्जातमात्राण्येव सर्वासां करिणीनामपत्यानि मारयति, अहं चाधुना गर्भिण्यस्मि, मदीयमनसि च महानुत्साहो वर्तते, तन्नूनं मम गजरूपः || कलमो भविष्यति, सोऽपि चारिसंहारकर्ता भविष्यति, ततो जातमात्र एवायं कलभोऽन्यत्र मुक्त्वा Page #5 -------------------------------------------------------------------------- ________________ नंदिषेण / मया त्रातव्यः. इति ध्यात्वा सा दक्षा करिणी निजापत्यरक्षणार्थ मायया वातरोगग्रस्तीभूय खंजीभूत- मूल चरित्रं चरणेव मंदमंदं संचरंती यूथात्पश्चात् पतति. अहो! पशूनामपि निना प्रत्येषु महान् मोहो भवति. // 3 // IP यतः-आदाय मांसमखिलं स्तनवर्जमंगान्मां मुंच वागरिक यामि कुरु प्रलादं // अद्यापि शस्यकवल. ग्रहणाऽनभिज्ञा / ममार्गवीक्षणपराः शिशवो मदीयाः // 1 // अथ स दुष्टो यूथाधिपतिर्दध्यो, अस्याः / / करिण्या अन्यः करी भोक्ता मा भक्तु, इति ध्यात्वा सोऽपि तस्याः पश्चान्मंदं मंदं संचरंस्तामेकाकिनी न मुंचति. सा दक्षा करिणी तु प्रतिदिनमधिकाधिकं मंद मंदं संचरति. तदा सकरी चाप्युदिनोऽन्य-18 18 वेगवतीकरिणीनां रक्षणार्थ तां करिणी विमुच्य ताभिरन्यकरिणीभिरेव सममग्रेऽग्रे संचरति. सा क-1 है। रिण्यपि तस्य विश्वासोत्पादनार्थ दिनद्वित्रयांतरे निजपत्युस्तस्य युथनाथस्य मिलति. तदा प्राप्तविश्वासः / बस थपतिरिति दध्यौ, नूनमियं वगकी करिणी वातरोगाभिभूतास्ति, तथापि सा प्रेमपाशबद्धा मदीयो पांतं न मुंचति. एवं जातविभंभे यूथनाथे दूरस्थे कदाचित् स्वप्रसवसमयं विज्ञाय सा करिणी भो. लिधृततृणपूला निकटस्थे तापसाश्रमे ययौ. अथ विनयनम्रीभृतां तां शांतस्वभावां करिणीं शरणार्थि Page #6 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्रं // 4 // नोमिव मत्वा ते तापसाः प्रोचुः, भो पुत्रि ! त्वं सुखेनैात्र तिष्ट ? इह ते कुतोऽपि भयं नास्ति, एवं मूल | तेस्तापसैराश्वासिता सा हस्तिनी तत्र स्थिता तस्मिन्नेव तापसाश्रमे शुभलक्षणोपेतं गजमेकं प्रसूतेस्म. ततस्तं निजापत्यं तत्रैव तापसाश्रमे मुक्त्वा सा मंदमंदं संचरंती निजयूथपतिपार्श्वे गता. ततोतरांतरा |सा तृणचरणमिषेण संचरंती प्रच्छन्नं तत्र तापसाश्रमे समागत्य तं निजकलभं स्तन्यपानं कारयति. तापसा अपि तं कलभं परमानंदेन श्यामाकग्रासदानादिना पोषयंति. एवं क्रमेण वृद्धि प्राप्तः स कलमोऽपि तापसबालेः सह निजां मनोहरां शुंडां लालयन् नानाविधक्रीडां करोति. तापसबालाश्च सरस्या जलभृतकलशानानीयाश्रमदुमान् सिंचंति, तैः सह स कलभोऽपि सरसों गत्वां निजशुंडायां / जलं भृत्वा तानाश्रमदुमान् सिंचति. ततस्तेस्तापसैस्तस्य कलभस्य सेचनक इति नाम विहितं. एवं स कलभो नानाविधकोडां कुर्वन् तापसबालानां परमानंदपात्रं बभूव. क्रमेण स तत्रैव योवनं प्राप्तोऽन्येनिजहृदये चिंतयामास, मदीयमात्राहं छलेन निजपति यथनायकं वंचयित्वास्मिन्नाश्रमे | | यथा जनिस्तथा माऽपरापि हस्तिन्यत्रागत्य मम प्रतिस्पर्धिनमन्यग जनयतु, इति विचार्य मदोन्मत्तः Page #7 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्र स करी निजाश्रयदायकानां तेषां तापसानामेवाश्रमं दुर्जन इव बभंज. अहो! अयं मदोन्मत्तो गजोऽस्माभिर्लालितः पालितोऽपि कृतघ्न इवास्माकमेवाश्रमं विनाशयति, अतोऽस्य बंधनार्थ कोऽप्युपायः / कतुं युज्यते, इति विचिंत्य ते तापसा मिलित्वा श्रेणिकनृपपावे ययुः, कथयामासुश्च तस्य सेचनकगजस्य सर्वमपि स्वरूपं. तत् श्रुत्वा स श्रेणिकनृपोऽपि निजसैन्यं संना विचक्षणाघोरणैर्युतस्तं हस्तिनं धर्तुं वने गतः. आधोरणाश्च ते तं गजं वशीकर्तुंछलबलादिविविधोपायांश्चकः, परं स गजस्तैर्वशीकर्तुं न शक्यते. तदृष्ट्वा श्रेणिकनृपो निजहृदये विषण्णोऽभृत्. एवं निजतातं विषण्णीभूत विलोक्य नंदिषेणकुमारःस्वयं पितुराज्ञयातं गजं वशीकर्तुमुपस्थितः. तं नंदिषेणकुमारं निजसन्मुखं समायातं विलोक्योहापोहं कुर्वन् स गजो जातिस्मरणज्ञानं प्राप्तवान्. एवं जातजातिस्मृतिः स दंती निजपूर्वभवसंबंधिनं स्वामिनं विलोक्य निजौद्रत्यं परित्यज्य तत्रैव स्थिरीभृतस्तस्थौ. एवं निजवशीभृतं तं करिणं नंदिषेणो नीत्वाश्चर्यमग्नाय निजताताय श्रेणिकभूपाय तमर्पयामास. ततस्तं सेचनकं गजेंद्र पुरे नीत्वा श्रेणिकनृपो महोत्सवपूर्वकं पट्टहस्तिनं चकार, नंदिषेणकुमारमपि सविशेष Page #8 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्रं // 6 // प्रामाद्यर्पणात् प्रीणयामास. इतः कियदिनानंतरं श्रीमहावीरः प्रभुस्तत्पुरोद्याने समवसृतः. श्रेणिकनृपनंदिषेणकुमारादिपुरलोकाश्च भगवद्वंदनार्थ समवसरणे समाययुः. सर्वेऽपि विधिना भगवंतं वंदित्वा यथास्थानमुपविष्टाः, भगवतापि देशना प्रारब्धा, भो भो भव्यलोकाः! इहापारे संसारे मनुष्यत्वं, क्षत्रियायुत्तमजातिः, ईक्ष्वाक्कायुत्तमं कुलं,शरीरारोग्य, आयुःसंपत्तिः, लक्ष्मीलाभकृत्सु व्यापारः, सर्वप्राणिदयामयो जैनधर्मः, सद्गुरुसंयोगः, धर्मशास्त्रश्रवणं, धर्मोपरिश्रद्धा, देशविरतेः सर्वविरते; लाभः, एतेषां प्राप्तिः खलु दुर्लभैव. अतः पूर्वपुण्ययोगेन प्राप्तां पूर्वोक्ता सामग्री लब्ध्वा प्रमादमुत्सृज्य भव्यलोकमुक्तिप्राप्त्यर्थं संयमाराधनं विधेयं. एवं कर्णसुधाप्रवाहतुल्यां भगवदेशनां निशम्य प्रबुद्धो नंदिषेणकुमारः कृतांजलिःप्रभुमपृच्छत्, हेभगवन् ! अयं सेचनको गजो मह्यं कथं प्रीतिपरो बभूव ? तत् श्रुत्वा भगवता तस्य गजस्य प्राग्भववृत्तांतः कथितः. तत् श्रुत्वा वैराग्यमापन्नः स नंदिषेणकु. मारः कथंचिन्मातापितरावापृच्छय प्रभुपावें संयममार्ग मार्गयामास. तत् श्रुत्वा ज्ञानवता प्रभुणा प्रोक्तं, भो नंदिषेण! अद्यापि तव चारित्रावरणं भोगकर्मफलं च बलवत्तरं विद्यते, ततस्त्वं दीक्षार्थ Page #9 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्रं // 7 // // 7 // मुत्सुको मा भव ? एवं प्रभुणा स्वयं निवार्यमाणोऽपि स नंदिषेणो यावद्दीक्षाग्रहणायात्यंतमुत्सुको बभूव, ताबदाकाशेऽपीति दीव्या वाण्यभवत्, भो नंदिषेण ! अधुना त्वं दीक्षाग्रहणं मा कुरु ? अयापि तब भोगफलं भूरि वर्तते, एवं शासनदेव्यापि निषिद्धःस नंदिषेण उत्सुकीभृय निजवीर्यबलेन दीक्षां जमाह. अथैवं गृहीतदीक्षः स मंदिषेणो महमुनिः षष्ठाष्ट्रमादितीव्रतपःपरोऽविश्रमं विजहार. सूत्रार्थवाचनापरो गीतार्थीभूय द्वादशभावना भावयन्, द्वाविशतिपरीषहांश्च सहमानो निजकर्माण्युन्मूलयितुमुद्यमं करोतिस्म. भोगकमोदयादुद्भवंतों तीवभोगेच्छां रोधुं स नंदिषेणो मुनिरातापनां कुर्वन्नानाविधोमतपांसि करोतिस्म. यतः-आयावयंति गिम्हेसु। हेमंतेसु उवाउडा // वासासु पडिसंलीणा / संजया सुसमाहिया // 1 // चारित्रनिवारिणी सा शासनदेवता तु नित्यं तं महामुनि संसारिकभोगांभोधौ पातयितुं समीहते. एवं देवीकृतानुकूलौपसगोंऽपि स मुनिर्निजचरणरक्षार्थमेकदा पर्वतं समारुह्य ततो झंपां दातुमुद्यतोऽभूत्. एवं स मुनिर्यावद्गिरेरग्रभागादधोझपां करोति, तावत्तं करे धृत्वा सा शासनदेवी चान्यत्र मुक्त्वोवाच, भो मुने! सांप्रतं वं मुधा मर्तु कथं यतसे ? भोग Page #10 -------------------------------------------------------------------------- ________________ | मूल नंदिषेण चरित्रं // 8 // // 8 // कर्मफललब्धिविना कदापि ते मरणं न भविष्यति. ततऽसो मुनिरेकाक्येव तीव्रतपःसमाराधनपरोऽन्यदाऽनाभोगात्पारणकदिने कस्मिंश्चिन्नगरे कस्याश्चिद्वेश्याया गृहे आहारार्थ प्रविष्टो धर्मलाभमुच्चचार. तत् श्रुत्वा सहास्या सा वेश्यापितं मुनिप्रत्याह, भोमुने! धनभोगार्थिन्या मम धर्मलाभेन किमपि प्रयोजनं नास्ति, अहं तु सर्वदा शर्मलाभदंधनमेवेच्छामि. तत् श्रुत्वा मुनिर्दध्यो, अहो! यौवनमदगर्वितेयं वेश्या अकिंचनस्य मम हास्यं करोति ! यतः सा जानाति, यज्जैनमुनयो नित्यं निर्धना एव वर्तते. अथ दर्शयाम्यस्या अपि मे प्रभावं, इत्यहंकाराभिभूतोऽसौ मुनि विभावस्याष्यवश्यंभावित्वेन यावत्तस्या द्वारागनीवात्तृणमाचकर्ष, तावत्तस्य तपोलब्धिप्रभावाद् द्वादशकोटिमितं सुवर्णद्रव्यं तत्र गगनांगणान्न्यपतत्. ततः स मुनिस्तां वेश्यामुवाच, भो सुंदरि ! अनेन द्रव्यसंचयेन त्वदभिमतः शर्मलाभस्तेऽस्तु, इत्युक्त्वा स नंदिषेणो मुनिर्यावत्ततोऽग्रे गंतु,प्रवर्तते, तावत्तया चतुरया वेश्यया तस्य पटांचलं विधृत्य प्रोक्तं, हे स्वामिन् ! इदं कमलकोमलं शरीरं दुष्करतपोऽग्निना त्वं कथं शोषयसे? अथ त्वं मदृगृहे स्थितो मया सह नानाविधभोगान् भुक्ष्व ? वयाहमेतेन धनदानेन क्रीतास्मि, Page #11 -------------------------------------------------------------------------- ________________ % 6 कृतज्ञाहं कथमपि त्वां न मुंचामि, तथापि यदि मां तिरस्कृत्य त्वं यास्यसि, तदाहं ते आत्मघात | मंदिरेण विधाय स्त्रीहत्यापापं दास्यामि. इत्युक्त्वा सा दिव्यरूपलावण्योपेता योवनारूढा वेश्या निजकटाक्षचरित्रं बाणैस्तस्य महातपस्विनोऽपि नंदिषेणमुनेः संयमकवचं भिवा बलानिजकमलकोमले हस्ते तद्धस्तं // 9 // दृढं धृत्वा गृहमध्ये समानयत्. अथ स मुनिरपि वीरप्रभोः शासनदेव्याश्च वचनं संस्मृत्य निजभोग कर्मफलं मत्वा तां वेश्यामंगीचकार, ततस्तत्रस्थः स नंदिषेणो मुनिरित्यभिग्रहं जग्राह, यन्मया प्रतिदिन दश दश नटविटादिपुरूषान प्रतिबोध्य, दीक्षां च ग्राहयित्वैव भोक्तव्यं. अन्यथा न. एवं मुक्तमुनिलिंगः स नंदिषेणस्तया कृतज्ञया वेश्यया सह नानाविधेदियविलासान् विलप्तन प्रतिदिनं चमिजोपदेशलब्धि प्रभावादश दश जनान प्रतिबोध्य दीक्षां ग्राहयामास. एवं च कुर्वतस्तस्य द्वादश13 वत्सरी व्यतीता, अर्थकदा तेन प्रतिबोधदानपूर्वकं नव पुरुषास्तु दीक्षां ग्राहिताः, दशमश्च मिलित एकः स्वर्णकारो बहुशः प्रतिबोधितोऽपि कथमपि प्रतिबोधं नाप्नोति, प्रत्युत वदति च, भो नंदिषेण ! है यदि त्वमेवं विधां संसारासारतां जानासि, तर्हि त्वं कथमत्र वेश्यागृहे स्थितो नानाविधभोगान् ॐREERCECR% RaXXA 4% ACASS Page #12 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्रं // 10 // विलससि? इतो भोजनवेलयां व्यतीतायां, वेश्यया द्वित्रिवारं कृतायां रसवत्यामपि शीतीभृतायां स: स्वर्णकारः कथमपि न प्रबुद्धः तदा तया वेश्यया प्रोक्तं, स्वामिन् ! भोजनावसरोऽपि व्यतीतः, अथ त्वमुत्थाय भुक्ष्व ? नंदिषेणः प्राह, हे प्रिये ! अयायं दशनो धृष्टः स्वर्णकारः कथमपि प्रतिबोधं न प्राप्नोति, प्रतिज्ञायामपूर्णायां च कथमहं भोजनं करोमि ? तत श्रुत्वा तदीयक्षीणभोगकर्मफलप्रेरित. येव वेश्ययापि प्रेमभृतहास्येन प्रोक्तं, तर्हि स्वामिन् ! अद्य दशमो भवानेव भवतु ? तयैवमुक्तः स नंदिषेणो निजभोगकर्मफलं क्षीणं विज्ञाय तस्या एवैतद्वचोंगीकृत्य पश्चात्तापपरया तया वेश्यया बहुनिवार्यमाणाऽपि स्वकीयं पूर्वलिंग गृहीत्वा ततो निःसृत्य गुरुपाययो. तत्र च विधिपूर्वकं सम्यगालोचनां कृत्वा, पुनर्दीक्षां लात्वा, तीव्र तपश्च तप्त्वा, कर्मक्षयं विधाय स नंदिषेणो महामुनिर्मुक्तिसुखं प्राप. // इति श्री प्रथम नंदिषेणमुनिचरित्रं समाप्तं // श्रीरस्तु // ACCORREARSA Page #13 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्रं // 11 // sxsARANAS अथ द्वितीय नंदिषेणमुनिचरित्रं प्रारभ्यते-भूभूषणे मगधाख्ये देशे नंदिग्रामाभिध एको | ग्रामोऽस्ति. तत्र ग्रामे सोमिलाख्य एको द्विजो वसतिस्म, सोऽतोक्दारिद्याभिभूतो भिक्षायाचनेन निजनिर्वाह करोतिस्म, तस्य सोमिलाख्या पत्नी बभूव. तयोर्नदिषेणाभिधो नंदनोऽभूत. अथ तं // 11 // नंदिषेणं तदभाग्यवशात बाल्ये एव मुक्त्वा तस्य मातापितरौ पंचत्वं प्राप्तो. अथ दुर्भगकर्मोदयेन मस्तक केशादारम्य चरणनखपर्यंतं तमत्यंतं कुरूपं दृष्ट्वा स्वजना अपि तत्यजुः. एवं निराधारो | दुःखांभोधौ निमग्नः स ग्रामांतरे निजमातुलगृहे गत्वा पशु समूहार्थ चारिपानीयानयनादि सर्वमपि गृहकार्य करोतिस्म. एवं तं निजभागिनेयं विनयपरं गृहकार्य कुवंतं च विज्ञाय संतुष्टो मातुलस्तं जगो, हे वत्स! त्वं खेदं मा कुरुष्व ? मम सप्त कन्यकाः संति, ताभ्य एका कन्यां त्वया सह परिणाययिष्यामि. | इति मातुलवचनं निशम्य स कुरुपो नंदिषेणो हृष्टः सन् सोत्साहं तस्य गृहकर्माणि सविशेष करोतिस्म. एवं क्रमेण मातुलं संतोषयन् स योवनं प्राप्तः, अथ तस्य नंदिषेणस्य परिणायन स्वरूप गर्भितं मातापित्रोत्रेष्टितं विज्ञाय प्रथम कन्या नि Ax355AR Page #14 -------------------------------------------------------------------------- ________________ नंदिषण चरित्रं RECE%E // 12 // // 12 // ASSACROR जतातं प्रति जगो, भो तात ! यदि त्वं मदीयं विवाहमनेन कुरूपेण नंदिषेणेन सह करिष्यसि तदाहं दुःखीभूतात्माघातं विधास्ये. तवृत्तांतं निशम्य व्याकुलीभूतं चिंतापरं च नंदिषेणं विज्ञाय मातुलोऽवदत्, भो नंदिषेण! त्वं विषादं मा कुरु? अहं द्वितीयां कन्यां तुभ्यं दास्यामि. परं सा द्वितीया कन्यापि तं वृत्तात्तं विज्ञाय निजतातं प्रथमपुत्रीवज्जगो. एवमन्याभिः सर्वाभिः कन्याभिरपि प्रतिषिद्धः, स नंदिषेणोऽतीव विषादं संप्राप्तः. एवं तं विषण्णं विज्ञाय मातुलोऽवदत, अन्यस्य कस्यापि पुत्रीं तुभ्यमहं दापयिष्यामि. ततो या याऽन्या कन्या मातुल स्तस्यार्थ मानयति, सा सा तस्य दुर्भ-15 गकमोदयात्तं कुरुपं विलोक्य दृष्ट्या वा मनसापि न समोहते. अथैवं विधं निज तिरस्कारं संभाव्य स नंदिषेणो दध्यो, अथात्र मया किं निरर्थकं स्थीयते? मम पूर्वकृतं किमपि दुष्कर्म प्रकटीभृतं. अथ मया मरणस्यैव शरण करणं श्रेयः, एवं ध्यात्वा स विषण्णो नंदिषेणस्ततो निःसृत्य दुःखगर्भित | परमवैराग्यवासितांतः करणोऽनुक्रमेण रत्नपुराख्यं नगरं संप्राप्तः. तत्रापि नगरे पोरान निजनिज है | सुंदरीभिः सह विविधविलासपरान्निरीक्ष्येाग्निना दहन् ततो निःसृत्य वनमध्ये गतः. तत्र पर्व PROGRॐSC FRONCH Page #15 -------------------------------------------------------------------------- ________________ मृल चरित्रं 13 // 1 तोपरी समारुह्य झंपापातं चिकीर्षुः सः कायोत्सर्गस्थमुनिनेकेन निवारितः. तदा स नंदिषेणस्तं नादषण व मुनिं प्रणम्य निजकर्मस्वरूपं जगौ, यतः-रोगिणां सुहृदो वैद्याः / प्रभूणां चाटुकारिणः // सुनवो है दुःखदग्धानां। गणिकाऽक्षीणसंपदः // 1 // ततः स मनिनिजज्ञानबलेन तदीयहृदयभावमुद्भाव्य / / 13 / / तस्याश्वासनकृते जगो, भो भद्र ! एवमात्मघातकरणेन न कोऽपि स्वपूर्वकृतकर्मभ्यो मुक्तो भवति, / प्रत्युत आर्तध्यानेन मृत्वा दुर्गतिं याति, यतः-कृतकर्मक्षयो नास्ति / कल्पकोटिशतैरपि // अवश्य-11 2 मेव भोक्तव्यं / कृतं कर्म शुभाशुभं // 1 // तत् श्रुत्वा कृतांजलिः स नंदिषेणो मुनि जगो, हे 181 भगवन् ! तर्हि यथाहं सुखलेशं प्राप्नुयां, तथा कमप्युपायं मह्यं कृपां विधाय यूयं दर्शयध्वं ? अथ | तं योग्यं विज्ञाय मुनि गौ, हे भद्र ! श्रीवीतरागोदितधर्मकार्यकरणेन निजदुष्टकर्माणि भेदयित्वा जनोऽत्र परत्र च सुखपात्रं भवति. तस्मात्त्वं यावज्जीवं दीक्षाग्रहणेन शुलं धर्म कुरु? येन भवांतरे दत्वं सुखभाग् भविष्यसि. इत्यादिमुनिप्रोक्तधर्मोपदेशात्प्रतिबोधं प्राप्तः स नंदिषेणो वराग्यवासित हृदयो है - तस्य मुनेः पावें दीक्षां जग्राह. अथ स नंदिषेणो महामुनिर्विनयपूर्वकं धर्मशास्त्राणि पठन् क्रमेणा Page #16 -------------------------------------------------------------------------- ________________ नंदिषेण Caxe चरित्रं / / 14: // 14 // 55%C5-80 गमपारीणो गीतार्थोऽभूत. ततोऽसो गुरोरग्रे चैत्यभिग्रहं जग्राह. लघुवृद्धग्लानादिसाधूनां वैयावृत्त्यं कृत्वैव मया सर्वदा भोक्तव्यं. अथैवं कृताभिग्रहः स नंदिषेणो मुनिनित्यं निवदं विनेव ग्लानादिसाधूनां शुद्धहृदयेन मनागपि दुगंछामकुर्वन् वैयावृत्त्यं करोतिस्म. अथैकदा निजसुधर्मासभायां स्थितः शकः स्वावधिज्ञानेन ते वैयावृत्यपरं नंदिषेणमुनि विज्ञाय तस्य प्रशंसां कुर्वन् जगो, भो देवाः! भरतक्षेत्रे यादृशो नंदिषेणो मुनिः साधूनां वैयावृत्यकरगे निश्चलोऽस्ति, तादृशः कोऽप्यन्यो नास्ति, देवैरपि निजाभिग्रहात् स न चलयितुं शक्यः एवंविधं सुरेंद्रवचनं निशम्य कश्चिदश्रद्दधानः सुरस्तत्र पुरोपांते समेत्यैकेन निजरूपेण ग्लानसाधुरभूत, एवं तमतिसाररोगाभिभूतं साधुं वने मुक्त्वा स द्वितीयं साधुरूपं विधाय नगरमध्ये उपाश्रयस्थस्य तस्य नंदिषेणमुनेः पावें ययौ. तावत् स नंदिषेणो मुनिर्विहृत्योपाश्रये समायत ईर्यापथिकी प्रतिक्रम्य, भक्तपानप्रत्याख्यानं पारयित्वा मोक्तुमुप- 3 विशन्नभृत्. तदा स प्राधूर्णकः साधुः प्राह, भो नंदिषेणमुने! मया पूर्व श्रुतं, यत्त्वयाभिग्रहो गृहीतो- 15 ऽस्ति यथा ग्लानादिप्ताधूनां वैयावृत्त्यं कृत्वैव मया भोक्तव्यं, परमद्य त्वं ग्लानसाधुवैयावृत्त्यमकृत्वैव Page #17 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्रं // 15 // 5ACHA- xS4 कथं भोक्तुमुपविशसि? तत् श्रुत्वा स नंदिषेणो मुनिरुत्थाय प्राह. भो साधों! स ग्लानः साधुः क्वास्ति ? प्राधूर्णकसाधुरवदत, पुराबहिः स्थितोऽस्ति, स चातिसाररोगेण पोड्यते, किंच तस्य तृडपि बाधते, अतस्त्वं शुरूं बहु जलं गृहीत्वा तत्रागच्छ ? ततो निजाहारपात्राण्याच्छाद्य स नंदिषणर्षिः प्रासकं पानीयं विहते जलपात्रं गृहीत्वा श्राद्धगृहेष गतः, अथ यत्र यत्र श्राद्धगृहे स पानीयार्थ याति, तत्र तत्र स देवो निजशक्त्या तज्जलभशुद्धं करोति. तथाप्यनिर्विणोऽसौ बहषु गृहेषु भ्रमन्नकस्मात् 2 स्वलब्धिप्रभावेण तत्सुरशक्तिमपि विजित्य शुरूं जलं प्राप. ततस्तेन प्राधुर्णकसाधूना समं स नंदि षेणर्षिवहिरुद्याने तस्य साधोः समीपे ययो. अथ तं साधु तथातिसाररोगपीडितं दृष्ट्वाऽस्य वैयावृत्ये. नाहं कृतकृत्यो भविष्यामीति मत्वा तेन प्रासुकोदकेन स्वयं तस्यापानद्वारं क्षालयितुं प्रवृत्तः. एवं यथा यथा स नंदिषेणर्षिस्तं प्रक्षालयति, तथा तथा स साधुरतीवदुर्गधोपेतमतिसारं मुंचति. नंदिघेणो विचारयति, अरे! अयं भाग्यवानपि साधुः पूर्वकर्मप्राबल्येनेगतिसाररोगभागस्ति ! नूनं राज्ञावा, रंकेण वा, साधुना वा, शक्रेण वा, कृतं कर्मावश्यं भोक्तव्यमेव. ततः स नंदिषेणस्तं साधं xR5ER-CARRY Page #18 -------------------------------------------------------------------------- ________________ नंदिषेण चरित्र - निजस्कंधे समारोप्योपाश्रयंप्रति चचाल. अथ स ग्लानसाधुः पदे पदे कर्कशशब्दानि जल्पन् तस्य / 8 नंदिषेणर्षेः शरीरं दुर्गधया विष्ट्या लिंपति. तथापि स नंदिषेणो महामुनिर्मनागपि दुगंछां न चकार, | न च तस्योपरि किंचिन्मालमपि क्रोधं विहितवान्. त्वरितं चलंतं तं नंदिषेण स स्कंधस्थितो मुनिर्जल्पति, IC:6 // अरे दुष्ट! एवं चलनेन मम प्राणा एवं गमिष्यति, अतः शनैश्चल ? त्वमभिग्रहोभूय मां कथमेवं पीडयसि ? तत श्रुत्वा यावत्स नंदिषेणो मंदं मंदं चलति, तदा स जल्पति, अरे! एवं मंदं मंदं चलनतो मार्गे एव मम मरणं भविष्यति, आराधनां विना च मे दुर्गतिपातो भविष्यति. एवंविधान तस्याकोशान सहमानो नंदिषेणमनिस्तथाभूतं तं साधं कथंचिदपाश्रये समानीय चिंतयामास, 4 अरेरे! अयं महात्मा साधुर्मया कथं नीरोगः कर्तव्यः? एवं चिंतयन् स निजात्मानं निंदतिस्म. अ| थैवं साधुर्वेयावृत्यकरणे तं मेरुमिव निश्चलं मत्वा स देवः प्रत्यक्षीभूय विष्टादि तत्सर्व संहत्य तन्मस्तकोपरि पुष्पवृष्टिं चकार. कथयामास च भो नंदिषेणमुने ! त्वं नूनं धन्यः कृतपुण्यश्चासि, योदृशो देवसभामध्ये त्वं शक्रेण वर्णितस्ततोऽप्यधिकोऽसि एवं तं मुनि स्तुत्वा, नत्वा, निजापराधं | x-% %940 Page #19 -------------------------------------------------------------------------- ________________ च क्षमयित्वा स देवो देवलोके ययो. एवं स नंदिषेणो महामुनिदशसहस्राही तीवं तपस्तप्त्वा साधु वैयावृत्त्यैकहृदयोऽन्यदाऽनशनं विधाय स्थितः, तदा सांतःपुरश्चक्री तस्य वंदनार्थ तत्र समागतः तस्य समृद्धिं दृष्ट्वा स नंदिषेणर्षिनिजमनसि चमत्कृतः. तच्चरणयोर्वदनं कुर्वतीनां चक्रवर्तिराजीनां सुकुमालमृदुकुंतलस्पर्शानुभवतः स्त्रीभोगसुखान्यभिलषन् स मुनिरिति निदानं चकार, अथाहमागामिनि भवेऽनेन तपसा भूरिश्रीवल्लभो भूयासं. अथैवं निदानयुतो मृत्वासो महाशक्रदेवलोके देवोऽमृत्. इतः सूर्यपूराभिधे नगरें,कवृष्णेनूपस्य सुभद्राख्या राज्ञी बभूव. तस्याः समुद्रविजयः, अक्षोभ्यः, स्तिमितः, सागरः, हिमावान् , अचलः, धरणः, पूरणः, अभिचंद्रश्चेति नव पुत्रा बभूवुः. ततः स नंदिषेण जीवदेयोऽपि देवलोकाच्युत्वा तस्या वसुदेवाभिधो दशमो पुत्रो जातः. पूर्वभवद्धनिदानप्रभावत स्तस्य सौभाग्यनामकोंदयेन दासप्ततिसहस्रमिताराश्योभवन्. ताभिः समं च स नानाप्रकारान् भोगविलासान् भुंक्तस्म. विस्तराच्च तत्संबंधो वसुदेवहिंडिनेमिचरित्रादिग्रंथादवसेयः. // इति श्रीद्वितीय नंदिषेणचरित्रं समाप्तम. // श्रीरस्तु // Page #20 -------------------------------------------------------------------------- ________________ DEISISISISISISISESSISISISISISISISD DOOOD000 55555555555555555555555555 HAIR KYAlb uys 355555555555555555555555 DESSESSEDIESSISISISISISGEED