SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ नंदिषेण चरित्र स करी निजाश्रयदायकानां तेषां तापसानामेवाश्रमं दुर्जन इव बभंज. अहो! अयं मदोन्मत्तो गजोऽस्माभिर्लालितः पालितोऽपि कृतघ्न इवास्माकमेवाश्रमं विनाशयति, अतोऽस्य बंधनार्थ कोऽप्युपायः / कतुं युज्यते, इति विचिंत्य ते तापसा मिलित्वा श्रेणिकनृपपावे ययुः, कथयामासुश्च तस्य सेचनकगजस्य सर्वमपि स्वरूपं. तत् श्रुत्वा स श्रेणिकनृपोऽपि निजसैन्यं संना विचक्षणाघोरणैर्युतस्तं हस्तिनं धर्तुं वने गतः. आधोरणाश्च ते तं गजं वशीकर्तुंछलबलादिविविधोपायांश्चकः, परं स गजस्तैर्वशीकर्तुं न शक्यते. तदृष्ट्वा श्रेणिकनृपो निजहृदये विषण्णोऽभृत्. एवं निजतातं विषण्णीभूत विलोक्य नंदिषेणकुमारःस्वयं पितुराज्ञयातं गजं वशीकर्तुमुपस्थितः. तं नंदिषेणकुमारं निजसन्मुखं समायातं विलोक्योहापोहं कुर्वन् स गजो जातिस्मरणज्ञानं प्राप्तवान्. एवं जातजातिस्मृतिः स दंती निजपूर्वभवसंबंधिनं स्वामिनं विलोक्य निजौद्रत्यं परित्यज्य तत्रैव स्थिरीभृतस्तस्थौ. एवं निजवशीभृतं तं करिणं नंदिषेणो नीत्वाश्चर्यमग्नाय निजताताय श्रेणिकभूपाय तमर्पयामास. ततस्तं सेचनकं गजेंद्र पुरे नीत्वा श्रेणिकनृपो महोत्सवपूर्वकं पट्टहस्तिनं चकार, नंदिषेणकुमारमपि सविशेष
SR No.600414
Book TitleNandishenmuni Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages20
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy