________________ नंदिषेण चरित्रं // 6 // प्रामाद्यर्पणात् प्रीणयामास. इतः कियदिनानंतरं श्रीमहावीरः प्रभुस्तत्पुरोद्याने समवसृतः. श्रेणिकनृपनंदिषेणकुमारादिपुरलोकाश्च भगवद्वंदनार्थ समवसरणे समाययुः. सर्वेऽपि विधिना भगवंतं वंदित्वा यथास्थानमुपविष्टाः, भगवतापि देशना प्रारब्धा, भो भो भव्यलोकाः! इहापारे संसारे मनुष्यत्वं, क्षत्रियायुत्तमजातिः, ईक्ष्वाक्कायुत्तमं कुलं,शरीरारोग्य, आयुःसंपत्तिः, लक्ष्मीलाभकृत्सु व्यापारः, सर्वप्राणिदयामयो जैनधर्मः, सद्गुरुसंयोगः, धर्मशास्त्रश्रवणं, धर्मोपरिश्रद्धा, देशविरतेः सर्वविरते; लाभः, एतेषां प्राप्तिः खलु दुर्लभैव. अतः पूर्वपुण्ययोगेन प्राप्तां पूर्वोक्ता सामग्री लब्ध्वा प्रमादमुत्सृज्य भव्यलोकमुक्तिप्राप्त्यर्थं संयमाराधनं विधेयं. एवं कर्णसुधाप्रवाहतुल्यां भगवदेशनां निशम्य प्रबुद्धो नंदिषेणकुमारः कृतांजलिःप्रभुमपृच्छत्, हेभगवन् ! अयं सेचनको गजो मह्यं कथं प्रीतिपरो बभूव ? तत् श्रुत्वा भगवता तस्य गजस्य प्राग्भववृत्तांतः कथितः. तत् श्रुत्वा वैराग्यमापन्नः स नंदिषेणकु. मारः कथंचिन्मातापितरावापृच्छय प्रभुपावें संयममार्ग मार्गयामास. तत् श्रुत्वा ज्ञानवता प्रभुणा प्रोक्तं, भो नंदिषेण! अद्यापि तव चारित्रावरणं भोगकर्मफलं च बलवत्तरं विद्यते, ततस्त्वं दीक्षार्थ