________________ | मूल नंदिषेण चरित्रं // 8 // // 8 // कर्मफललब्धिविना कदापि ते मरणं न भविष्यति. ततऽसो मुनिरेकाक्येव तीव्रतपःसमाराधनपरोऽन्यदाऽनाभोगात्पारणकदिने कस्मिंश्चिन्नगरे कस्याश्चिद्वेश्याया गृहे आहारार्थ प्रविष्टो धर्मलाभमुच्चचार. तत् श्रुत्वा सहास्या सा वेश्यापितं मुनिप्रत्याह, भोमुने! धनभोगार्थिन्या मम धर्मलाभेन किमपि प्रयोजनं नास्ति, अहं तु सर्वदा शर्मलाभदंधनमेवेच्छामि. तत् श्रुत्वा मुनिर्दध्यो, अहो! यौवनमदगर्वितेयं वेश्या अकिंचनस्य मम हास्यं करोति ! यतः सा जानाति, यज्जैनमुनयो नित्यं निर्धना एव वर्तते. अथ दर्शयाम्यस्या अपि मे प्रभावं, इत्यहंकाराभिभूतोऽसौ मुनि विभावस्याष्यवश्यंभावित्वेन यावत्तस्या द्वारागनीवात्तृणमाचकर्ष, तावत्तस्य तपोलब्धिप्रभावाद् द्वादशकोटिमितं सुवर्णद्रव्यं तत्र गगनांगणान्न्यपतत्. ततः स मुनिस्तां वेश्यामुवाच, भो सुंदरि ! अनेन द्रव्यसंचयेन त्वदभिमतः शर्मलाभस्तेऽस्तु, इत्युक्त्वा स नंदिषेणो मुनिर्यावत्ततोऽग्रे गंतु,प्रवर्तते, तावत्तया चतुरया वेश्यया तस्य पटांचलं विधृत्य प्रोक्तं, हे स्वामिन् ! इदं कमलकोमलं शरीरं दुष्करतपोऽग्निना त्वं कथं शोषयसे? अथ त्वं मदृगृहे स्थितो मया सह नानाविधभोगान् भुक्ष्व ? वयाहमेतेन धनदानेन क्रीतास्मि,