SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ नंदिषण चरित्रं // 2 // राद्धानशेषस्योपयोगं करोमि. ततो द्विजेनापि तत्प्रतिपन्न. अथ स भीमः शुद्धभावेन तस्य द्विजस्य दास्यं कुर्वन्स्वाजीविका निर्वहति, द्विजार्पितं राद्धान्नशेषं च स नित्यं तपस्त्यादिसाधुभ्यः प्रयच्छति. एवमुपार्जितपुण्यपाथेयः स भीमः कियकालानंतरं मृत्वा देवलोके देवो बभूव. तत्र च दिव्यसुखान्यनुभूयायुःक्षये ततश्च्युक्त्वा मगधदेशे राजगृहे नगरे श्रेणिकाख्यस्य क्षोणीभूतो नंदिषेणाभिधः पुत्रो | जातः. स मुखप्रिय द्विजश्च मृत्वा भूरिषु भवेषु भ्रांत्वा वनमध्ये गजयूथे कस्याश्चित् करिण्या उदरेऽवा-18 | तरत्. क्रमेण तया करिण्या प्रसूतः स कलमो यौवनं प्राप्तो व्यचिंतयत्, अथात्र यूथे मदन्यः करी यूथनायको माभूदिति विचिंत्य यूथपतीभृतः स युवा करी करिणीभिः प्रसूतान् सर्वानपि गजकलभान है जन्मसमये एव मारयामास, करिणीश्च प्रसूता रक्षयामास. अथ तस्मिन् यूथे स्थितानां करिणीनां में मध्यादेका दक्षा गर्भिणी करिणी दभ्यो, यदेषो दुष्टो यूथाधिपतिर्जातमात्राण्येव सर्वासां करिणीनामपत्यानि मारयति, अहं चाधुना गर्भिण्यस्मि, मदीयमनसि च महानुत्साहो वर्तते, तन्नूनं मम गजरूपः || कलमो भविष्यति, सोऽपि चारिसंहारकर्ता भविष्यति, ततो जातमात्र एवायं कलभोऽन्यत्र मुक्त्वा
SR No.600414
Book TitleNandishenmuni Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages20
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy