Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ नंदिषेण चरित्रं // 10 // विलससि? इतो भोजनवेलयां व्यतीतायां, वेश्यया द्वित्रिवारं कृतायां रसवत्यामपि शीतीभृतायां स: स्वर्णकारः कथमपि न प्रबुद्धः तदा तया वेश्यया प्रोक्तं, स्वामिन् ! भोजनावसरोऽपि व्यतीतः, अथ त्वमुत्थाय भुक्ष्व ? नंदिषेणः प्राह, हे प्रिये ! अयायं दशनो धृष्टः स्वर्णकारः कथमपि प्रतिबोधं न प्राप्नोति, प्रतिज्ञायामपूर्णायां च कथमहं भोजनं करोमि ? तत श्रुत्वा तदीयक्षीणभोगकर्मफलप्रेरित. येव वेश्ययापि प्रेमभृतहास्येन प्रोक्तं, तर्हि स्वामिन् ! अद्य दशमो भवानेव भवतु ? तयैवमुक्तः स नंदिषेणो निजभोगकर्मफलं क्षीणं विज्ञाय तस्या एवैतद्वचोंगीकृत्य पश्चात्तापपरया तया वेश्यया बहुनिवार्यमाणाऽपि स्वकीयं पूर्वलिंग गृहीत्वा ततो निःसृत्य गुरुपाययो. तत्र च विधिपूर्वकं सम्यगालोचनां कृत्वा, पुनर्दीक्षां लात्वा, तीव्र तपश्च तप्त्वा, कर्मक्षयं विधाय स नंदिषेणो महामुनिर्मुक्तिसुखं प्राप. // इति श्री प्रथम नंदिषेणमुनिचरित्रं समाप्तं // श्रीरस्तु // ACCORREARSA

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20