Book Title: Nandanvan Kalpataru 2015 08 SrNo 34
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 5
________________ वाचकानां प्रतिभावः महात्मन नन्दनवनकल्पतरोः त्रयस्त्रिंशी शाखा आमोदं पठिता । तत्र सर्वाः अपि रचनाः उत्कृष्टाः । डा. नारायणदाशस्य उद्धरणेभ्यः अवगम्यते यद् महाराणाप्रतापस्य वीरगाथायाः कर्तुः शिवप्रसादभारद्वाजमहाभागस्य काव्यशैली मनोज्ञा अस्ति इति । नारायणदाशस्यैव सिद्धार्थग्रन्थसमीक्षा उज्ज्वला । श्रीविजयकस्तूरसूरिभिः लिखिता "सीलपालणंमि सच्चवईए कहा" इति प्राकृतकथा अपि मह्यम् अतीव अरोचत । इति भवदीयः '' रवीन्द्रः ३३-तम्याः शाखायाः ६७-तमे पृष्ठे द्वितीयखण्डिकायां "पश्चात्तापविधुरा माद्री स्वमुखमपि दर्शयितुं नेच्छितवती इति दृष्टम् । इच्छत्याः क्तवतुरूपं इष्टवान् इत्यस्तीति श्रुतम् । (अत्र इच्छां करोति - इति - इच्छतीति नामधातोः क्तवत्वन्तस्य रूपमेतत् । - सं.) मुनिधर्मकीर्तिविजयानाम् अभिनवप्रयोगकथायां कल्पतरो ७२-तमे पृष्ठे अन्तिमखण्डिकायाः द्वितीयवाक्ये शुद्धिकरणम् इति दृष्टम् । साधुरूपं तु शुद्धीकरणम् इति खलु ? तेषामेव दृष्टिभेदः इति कथायां प्रथमवाक्ये प्रयत्नवन्तः इति दृष्टम् । प्रयततेः क्तवत्वन्तं प्रयतवान् इति श्रुतम् । (अत्र प्रयत्नशब्दस्य मतुप्-प्रत्ययान्तस्य रूपमेतत् । - सं.) ७५-तमे पृष्ठे एकान्तस्य रहस्यम् इति कथायाः अन्तिमवाक्ये "अस्माकं प्राप्स्यते'' इत्यस्य प्रयोगसाधुत्वं न च जाने । एको वाचकः आदरणीयाः श्रीविजयशीलचन्द्रसूरीश्वराः, सादरं नमो नमः । नन्दनवनकल्पतरोः द्वात्रिंशत्तमी शाखा पठिता । श्रीमुनिकल्याणकीर्तिविजयस्य "सिद्धार्थः (द्वितीयो भागः)" आन्तं पठितः । रचनाया अस्या भाषाशैली तरला-सरला च । जलवत् तरलतया प्रवहति खलु कथाप्रवाहः । वारं वारं पठनस्य इच्छा भवति । अनेके धन्यवादाः । महेश्वरः द्विवेदी राजकोटस्थः ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 86