Book Title: Namu Guru Nemisuri Sansarma Author(s): Shilchandrasuri Publisher: Vijaynemisuri Gyanshala Ahmedabad View full book textPage 5
________________ ॥१७॥ ॥१८ ॥ ॥ १९॥ रूपकम् - ५ नेमिनूतनसूर्यो - ऽस्त्यस्ताचलरोहणेन रहितोऽयम् । उष्णरुचेरतिरिच्यत - एषोऽकर्कशकरो नु नेम्यर्कः ॥१४॥ परिणामः अभयं नेमिव्याघ्रो, दत्ते षट्कायमृगचयाय तथा । रक्षति तं हिंस्रगणा - दहो ! महच्चरितमतिचित्रम् ॥ १५ ॥ उल्लेखः सधैर्युगप्रधानः, शिष्यैः कल्पदुमश्च, भूपालैः।। यो गुरुरमन्यत निजः, स नेमिसूरिददातु शिवम् ॥१६॥ उल्लेखः- २ तापापगमे सोमो विबुधानां सदसि यो गुरुर्वाग्ग्मी । चक्री सूरिसमाजे, स राजतां नेमिगुरुराजः स्मृतिः गुरवः कुमारराजः, स्मर्यन्ते हेमचन्द्रसूरीन्द्राः । भूपान् समुपदिशन्तं, यं दृष्ट्वाऽयं जयतु गुरुराट् भ्रान्तिः सत्त्वं पवित्रतामपि, यस्य विलोक्यैव दैवतं मनुजाः । मन्यन्ते यं मुनिपं, तं वन्दे नेमिसूरिवरम् सन्देहः नेमिगुरोरतिप्रतिभा - दीप्तिं संवीक्ष्य मामकीनमतिः । सूर्योऽयं सिंहो वा ?, निर्णेतुं नेति शक्तिमती ॥ २० ॥ अपहनुतिः नेमिर्जगद्गुरुतया, ख्यातो जगतीह यद्यपि परन्तु । नैष जगद्गुरुरपि तु, स्वयं नृदेहे जगच्चक्षुः ॥ २१॥ हेत्वपर्तुतिः किमयं शिखरी ? नहि स हि कठिनः, किम केसरी ? नहि स हिंस्रः । जीवदयाकुलकोमल - चेतःकलितोऽस्त्यसौ स्वगुरुः ॥२२॥ . पर्यस्तापनुतिः न शिलोच्चयो हि शैलः, शैलस्तु सुशीलनेमिसूरिरयम् । प्राणात्ययेऽप्यविचल - व्रती तथाऽतीव धीरमतिः ॥२३॥ भ्रान्तापह्नुतिः विह्वलयति मां भीतिः, किं दुष्कृत्यस्य ? नैव, नेमिगुरोः । इत्येवं जिनशासन - रिपवोऽन्योऽन्यं वदन्त्यधुना छेकापह्नुतिः नेमिगुरोरसहसहो – ऽनुभूय गलितं सखे ! मदीयेन । किमहङ्कारेण खलु ? नहि नह्यज्ञानतिमिरेण ॥ २५॥ ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 66