Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad
View full book text
________________
॥११० ।।
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥
॥११५ ॥
समुच्चयः-२ तीर्थोद्धारे प्रीति - भवभीतिश्चाऽहितेऽनुकम्पैव । प्रवचनरागः प्रबलो, विशदयति महात्मता गुरो ! भवतः
कारकदीपकम् त्वन्नामश्रवणादपि पापासक्ता जना गुरुवरेण्य !। क्षुभ्यन्ति बिभ्यति तत-स्त्यजन्ति निजदूषिताचारम्
समाधिः प्राणान्तेप्युद्धार्यं “कापरडा तीर्थमिति विनिश्चितवान् । गुरुवर ! भवां,स्तदैव च, मरणभयमपगतं भवन्मनसः
प्रत्यनीकम् वसुधातले विहरता सुधांशुरक्षीणतागुणेनैव । गुरुवर !भवताऽपास्त-स्तत इव गगनेऽयमारूढः
अर्थापत्तिः भवताऽऽन्तररिपुवन्दं निर्जितमर्जितनिजात्मवीर्येण । अथ शासनमत्सरिणां गुरुवर ! कतरत्तु सामर्थ्यम् !
___काव्यलिङ्गम् रे रे मनोभव ! परा –भव मनो मा ममाऽतिनिर्मम रे !। निकटेऽस्ति तव विनाशो, नेमिगुरोः स्वीकृतं मया शरणम्
अर्थान्तरन्यासः श्रीनेमिसूरिराजैः समर्पितं जीवनं निजं निखिलम् । . जिनशासननसेवायां, सत्कर्मार्थं जनुः सतां भवति
विकस्वरम् श्रीनेमिरिगुरुभिः क्लेशाः शमिता अनेकसङ्घानाम् । शान्तिप्रिया हि ऋषयो ब्रह्मर्षिवसिष्ठवन्नियतम्
प्रौढोक्तिः । श्री हीर- सेन- देवा- चार्याणां चैव विजयसिंहानाम् । समता-प्रताप-पुण्या-ऽऽराधनकणनिर्मितो नेमिः
सम्भावना गुरुवर ! भवदुपमानं चेत् सृष्टौ विश्वसृट् सृजेन्नूत्नम् । सकलविलक्षणतेजा – स्तर्युपमेयो भवेत्तु भवान्
मिथ्याध्यवसितिः दिनकरकरनिकरं यो गणयेन्निपुणो गुणी करग्राहम् । सुकरं तस्य प्रयातुं नेमिगुरोर्गुणतरङ्गिणीतीरम्
ललितम् शारदशशाङ्कमण्डल - माच्छादयितुं निजैः करतलैस्ते । अश्रान्तं प्रयतन्ते नेमिगुरो ! त्वद्विरोधिजनाः
॥ ११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66