Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad
View full book text
________________
लेशः -२ कीर्तिर्गता भवन्तं त्यक्त्वा गुरुगुणगणोरु ! गुरुवर्य !। भवतोपार्जितमनसिज-विजयस्य समस्ति फलमेतत्
॥ १३४॥
मुद्रा
॥ १३५ ॥
॥ १३६ ॥
॥ १३७ ॥
॥ १३८ ॥
॥ १३९ ॥
भङ्क्तुं ददाति न रथं यद्बलतश्चलति चपलमेव रथः । आनन्दयतु श्रीजिन - शासनरथचक्रनेमिरसौ
रलावली मिथ्यात्वध्वान्तार्कः प्रथितकविर्दोषचन्द्रमोराहुः । मङ्गलरूपश्च बुधो भव्याब्जाब्जः सजयतु गुरुः
तद्गुणः • अष्टाभिः सुविशिष्टैः शिष्टैः शिष्यैरलङ्कतं सुगुरुम् । अष्टदलकमलबुद्धया शिरसि बुधा धारयन्ति मुदा
पूर्वरूपम् देहावृतमपि रूपं निजात्मनो बोधदीपकेन भवान् । भिन्न प्रतीतवानिति, नेमिगुरो ! हारि तव सर्वम्
पूर्वरूपम्-२ अस्तमितेषु समेषु युगप्रधानोपमेषु पूज्येषु । अपि नेमिसूरिदीपो द्योतितवान् शासनद्यां सः
अतद्गुणः जिनशासनानुरागो यद्यपि भरितस्तवाऽस्थिमज्जासु । नश्वरता च कुगन्ध-स्तथापि न प्रापि तेन, चित्रमिदम्
अनुगुणः निसर्गतोऽसि नृरत्नं तत्र च गुरुवृद्धिचन्द्रमणिकारैः । मलमपहत्य विनिहितं तेजोऽपूर्वं ततोऽवशिष्टं किम् ? ॥
मीलितम् उज्ज्वलतेजःपुञ्ज-श्लिष्टं भवतां यशोऽशुराशिमिह । कोऽपि विवेक्तुं नाऽलं, गुरुवर ! कः पुण्यपुजोऽयम् !
सामान्यम् श्रीनेमिसरिचरणा-म्भोजरजःक्रान्तपुण्यभमितले । अवकीर्णोऽपि न गम्य- स्तदीयपुण्याणुसंघातः
उन्मीलितम् प्रसरत्यपि दशदिक्षु सूर्यकरैः सह भवद्यशःप्रकरः । उष्णाऽनुष्णात्वाभ्या बोधन्ति बुधास्तयोर्भेदम्
विशेषकः गुरुदेवनेमिसूरे-रुपदेशदिवाकरे प्रसृमरेऽत्र । सत्कर्माऽसत्कर्मसु विसदृशता लक्षिता लोकैः ।
॥१४०॥
॥१४१॥
॥१४२ ॥
॥१४३॥
॥१४४॥
॥१४५ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66