SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ लेशः -२ कीर्तिर्गता भवन्तं त्यक्त्वा गुरुगुणगणोरु ! गुरुवर्य !। भवतोपार्जितमनसिज-विजयस्य समस्ति फलमेतत् ॥ १३४॥ मुद्रा ॥ १३५ ॥ ॥ १३६ ॥ ॥ १३७ ॥ ॥ १३८ ॥ ॥ १३९ ॥ भङ्क्तुं ददाति न रथं यद्बलतश्चलति चपलमेव रथः । आनन्दयतु श्रीजिन - शासनरथचक्रनेमिरसौ रलावली मिथ्यात्वध्वान्तार्कः प्रथितकविर्दोषचन्द्रमोराहुः । मङ्गलरूपश्च बुधो भव्याब्जाब्जः सजयतु गुरुः तद्गुणः • अष्टाभिः सुविशिष्टैः शिष्टैः शिष्यैरलङ्कतं सुगुरुम् । अष्टदलकमलबुद्धया शिरसि बुधा धारयन्ति मुदा पूर्वरूपम् देहावृतमपि रूपं निजात्मनो बोधदीपकेन भवान् । भिन्न प्रतीतवानिति, नेमिगुरो ! हारि तव सर्वम् पूर्वरूपम्-२ अस्तमितेषु समेषु युगप्रधानोपमेषु पूज्येषु । अपि नेमिसूरिदीपो द्योतितवान् शासनद्यां सः अतद्गुणः जिनशासनानुरागो यद्यपि भरितस्तवाऽस्थिमज्जासु । नश्वरता च कुगन्ध-स्तथापि न प्रापि तेन, चित्रमिदम् अनुगुणः निसर्गतोऽसि नृरत्नं तत्र च गुरुवृद्धिचन्द्रमणिकारैः । मलमपहत्य विनिहितं तेजोऽपूर्वं ततोऽवशिष्टं किम् ? ॥ मीलितम् उज्ज्वलतेजःपुञ्ज-श्लिष्टं भवतां यशोऽशुराशिमिह । कोऽपि विवेक्तुं नाऽलं, गुरुवर ! कः पुण्यपुजोऽयम् ! सामान्यम् श्रीनेमिसरिचरणा-म्भोजरजःक्रान्तपुण्यभमितले । अवकीर्णोऽपि न गम्य- स्तदीयपुण्याणुसंघातः उन्मीलितम् प्रसरत्यपि दशदिक्षु सूर्यकरैः सह भवद्यशःप्रकरः । उष्णाऽनुष्णात्वाभ्या बोधन्ति बुधास्तयोर्भेदम् विशेषकः गुरुदेवनेमिसूरे-रुपदेशदिवाकरे प्रसृमरेऽत्र । सत्कर्माऽसत्कर्मसु विसदृशता लक्षिता लोकैः । ॥१४०॥ ॥१४१॥ ॥१४२ ॥ ॥१४३॥ ॥१४४॥ ॥१४५ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001474
Book TitleNamu Guru Nemisuri Sansarma
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherVijaynemisuri Gyanshala Ahmedabad
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Gujarati & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy