________________
प्रहर्षणम् त्वच्चरितकीर्तनं मे चिरकालाद् वाञ्छितं गुरुप्रवर ! । अद्याऽकस्मादाप्त बन्दित्वं तव गुणेषु, धन्योऽहम् ।
॥ १२२ ॥ प्रहर्षणम्-२ गरुवर!भवाब्धितरणं जिनशासननौकया त्वयेष्टं प्राक । चित्रं नौकाधिपति - स्त्वमेव सङ्घन विहितः नाक! ॥१२३ ॥
प्रहर्षणम्-३ "रक्षार्थं कादम्बा-चलस्य राजन्यकानपदिशामि" । इति तत्र त्वं यात- तीर्थं तैस्तूपदीकृतं तुभ्यम्
॥ १२४ ॥ विषादनम् “अधुनैव युक्तिवचनैः सूरिं तं निरुत्तरीकरिष्यामः" । इति सामर्षागतपर-तीर्थमुखं ननु बबन्ध मुद्रा ते
॥ १२५ ॥ उल्लासः नेमेर्हदयप्रपायां विलसद् विमलं कृपाजलं सम्यक् । प्रक्षालयतु मम मलं, गालयतु ज्ञानतृषमथ च
॥ १२६ ॥ उल्लासः-२ गुरुवर ! भवतोऽलयं, शासनमुल्लघयन्ति हतदैवाः। तत्कटुकफलानुभवना- वसरे कुप्यन्ति ननु विधये
॥ १२७ ॥ उल्लासः-३ स्वीयोऽयं परकीयो -ऽयं चेति द्वैतमुक्तचैतन्ये । त्वय्यपि च पक्षपातं, कल्पन्ते येऽज्ञता हि सा तेषाम् ॥ १२८ ॥
उल्लासः-४ इष्टापत्तिरियं खल खला न खेलन्ति यत्तव गुणेषु । भेदः सत्खलयोर्ननु कर्तुं लोको भवेदतः शक्तः
॥ १२९ ॥ अवज्ञा गुरुवर ! गुणरत्नानां रोहणपर्वतसमानमाप्य त्वाम् । मयका द्वित्रगुणा अपि नाऽवाप्ता, मन्दभाग्योऽहम्
॥ १३०॥ अवज्ञा -२ चित्तविशोधकमपि हित-बोधं श्रीनेमिसूरिराजस्य । यदि गृहणाति न कश्चन, का हानिरतो गुरोरस्य ? ॥ १३१ ॥
अनुज्ञा आशासे बधिरत्वं, धीरोत्तम ! गुरुवरेण्य !येनाऽहम् । खलविहितत्वद्गर्दा-श्रवणाऽन) भवेयं वै
॥ १३२॥ लेशः यद्यपि भवत्यधैर्य न गुणो, गुरुवर ! तथापि युष्माकम् । अद्भुतचरितं श्रोतुं मय्युत्के स गुण इव भाति
॥ १३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org