Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad

View full book text
Previous | Next

Page 14
________________ प्रहर्षणम् त्वच्चरितकीर्तनं मे चिरकालाद् वाञ्छितं गुरुप्रवर ! । अद्याऽकस्मादाप्त बन्दित्वं तव गुणेषु, धन्योऽहम् । ॥ १२२ ॥ प्रहर्षणम्-२ गरुवर!भवाब्धितरणं जिनशासननौकया त्वयेष्टं प्राक । चित्रं नौकाधिपति - स्त्वमेव सङ्घन विहितः नाक! ॥१२३ ॥ प्रहर्षणम्-३ "रक्षार्थं कादम्बा-चलस्य राजन्यकानपदिशामि" । इति तत्र त्वं यात- तीर्थं तैस्तूपदीकृतं तुभ्यम् ॥ १२४ ॥ विषादनम् “अधुनैव युक्तिवचनैः सूरिं तं निरुत्तरीकरिष्यामः" । इति सामर्षागतपर-तीर्थमुखं ननु बबन्ध मुद्रा ते ॥ १२५ ॥ उल्लासः नेमेर्हदयप्रपायां विलसद् विमलं कृपाजलं सम्यक् । प्रक्षालयतु मम मलं, गालयतु ज्ञानतृषमथ च ॥ १२६ ॥ उल्लासः-२ गुरुवर ! भवतोऽलयं, शासनमुल्लघयन्ति हतदैवाः। तत्कटुकफलानुभवना- वसरे कुप्यन्ति ननु विधये ॥ १२७ ॥ उल्लासः-३ स्वीयोऽयं परकीयो -ऽयं चेति द्वैतमुक्तचैतन्ये । त्वय्यपि च पक्षपातं, कल्पन्ते येऽज्ञता हि सा तेषाम् ॥ १२८ ॥ उल्लासः-४ इष्टापत्तिरियं खल खला न खेलन्ति यत्तव गुणेषु । भेदः सत्खलयोर्ननु कर्तुं लोको भवेदतः शक्तः ॥ १२९ ॥ अवज्ञा गुरुवर ! गुणरत्नानां रोहणपर्वतसमानमाप्य त्वाम् । मयका द्वित्रगुणा अपि नाऽवाप्ता, मन्दभाग्योऽहम् ॥ १३०॥ अवज्ञा -२ चित्तविशोधकमपि हित-बोधं श्रीनेमिसूरिराजस्य । यदि गृहणाति न कश्चन, का हानिरतो गुरोरस्य ? ॥ १३१ ॥ अनुज्ञा आशासे बधिरत्वं, धीरोत्तम ! गुरुवरेण्य !येनाऽहम् । खलविहितत्वद्गर्दा-श्रवणाऽन) भवेयं वै ॥ १३२॥ लेशः यद्यपि भवत्यधैर्य न गुणो, गुरुवर ! तथापि युष्माकम् । अद्भुतचरितं श्रोतुं मय्युत्के स गुण इव भाति ॥ १३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66