Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad
View full book text
________________
कारणमाला सत्सङ्गेन सुमार्गा-नुसरणमथ तेन पुण्ययोगः स्यात् । पुण्येन नेमिगुरुपदसेवाऽथ तयाऽभिलषितसम्प्राप्तिः॥ ॥ ९८॥
एकावलिः निःस्पृहता निर्दैन्या, दैन्याभावोऽतितेजसा ज्वलितः। तेजः शमरसरसितं, यस्मिन् विलसन्ति तं स्तुवे नेमिम् ॥९९ ॥
मालादीपकम् मनसि मनसिजाद् भीति-मनो हि तन्नाशिगुरुपदे रमते । नेमिगुरो ! भयरहितं मनोरमं देहि परमसुखम्
॥ १०० ॥ . सारः अस्त्युन्नतो हिमाद्रि- स्ततोऽपि जलदस्ततोऽपि नेमिगुरोः । प्रतिभाभरः शमसुधां वर्षन् भुवनेऽत्र भव्यतरः
॥१०१॥ यथासङ्ख्यम् कुगुणान् गुणान् गुणज्ञान् शोषयति च पोषयति च तोषयति । यतिततिपतिरतिकुमति- नेमिगुरुर्यः श्रिये सोऽस्तु ॥१०२ ॥
पर्यायः प्रथमं हेमाचार्यं तदनु श्रीहीरविजयसूरीन्द्रम् । प्रवचनप्रभावकश्रीः श्रिता ततो नेमिसूरीशम्
॥ १०३॥ __ पर्यायः-२ प्रथमं सरिप्रवरः, शासनसम्राट् ततोऽभवत् पुण्यैः । तदनु च जगद्गुरुतया, प्राप्तः ख्यातिं गुरुर्नेमिः
॥ १०४॥ परिवृत्तिः दत्वा जलाञ्जलिं किल ममतायै, साम्यसागरो येन ॥ सम्प्रातः, स्ताद् भूत्यै विभूतिमान्नेमिसूरिः सः
॥ १०५ ॥ परिसव्या गच्छति दाहकभावं दिनकरतापो न तु प्रतापस्ते । गुरुवर ! यथा यथा किल, वृद्धिं लभते तथा तथैवाऽयम् ॥१०६ ॥
विकल्पः अयि दुःखतप्त चेतन ! संक्लिश्यसि किं भयेन ममतायाः ? । दुःखहर नेमिगुरोः कुरुष्व शरणं स्मरणमथवा
॥ १०७ ॥ विकल्पः-२ भवतु मदीये चित्ते संक्लेशो मोहसम्भवः सभवः । अथवा नेमिगुरोर्भव- संक्लेशहरं चरणशरणम्
॥ १०८॥ समुच्चयः यस्योपरि ते गुरुवर ! निपतति घष्टिः कृपाम्बुवृष्टिमयी । तुष्यति तृप्यति पुष्यति भवति स्वच्छं च तस्य मनः ॥ १०९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66