SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ कारणमाला सत्सङ्गेन सुमार्गा-नुसरणमथ तेन पुण्ययोगः स्यात् । पुण्येन नेमिगुरुपदसेवाऽथ तयाऽभिलषितसम्प्राप्तिः॥ ॥ ९८॥ एकावलिः निःस्पृहता निर्दैन्या, दैन्याभावोऽतितेजसा ज्वलितः। तेजः शमरसरसितं, यस्मिन् विलसन्ति तं स्तुवे नेमिम् ॥९९ ॥ मालादीपकम् मनसि मनसिजाद् भीति-मनो हि तन्नाशिगुरुपदे रमते । नेमिगुरो ! भयरहितं मनोरमं देहि परमसुखम् ॥ १०० ॥ . सारः अस्त्युन्नतो हिमाद्रि- स्ततोऽपि जलदस्ततोऽपि नेमिगुरोः । प्रतिभाभरः शमसुधां वर्षन् भुवनेऽत्र भव्यतरः ॥१०१॥ यथासङ्ख्यम् कुगुणान् गुणान् गुणज्ञान् शोषयति च पोषयति च तोषयति । यतिततिपतिरतिकुमति- नेमिगुरुर्यः श्रिये सोऽस्तु ॥१०२ ॥ पर्यायः प्रथमं हेमाचार्यं तदनु श्रीहीरविजयसूरीन्द्रम् । प्रवचनप्रभावकश्रीः श्रिता ततो नेमिसूरीशम् ॥ १०३॥ __ पर्यायः-२ प्रथमं सरिप्रवरः, शासनसम्राट् ततोऽभवत् पुण्यैः । तदनु च जगद्गुरुतया, प्राप्तः ख्यातिं गुरुर्नेमिः ॥ १०४॥ परिवृत्तिः दत्वा जलाञ्जलिं किल ममतायै, साम्यसागरो येन ॥ सम्प्रातः, स्ताद् भूत्यै विभूतिमान्नेमिसूरिः सः ॥ १०५ ॥ परिसव्या गच्छति दाहकभावं दिनकरतापो न तु प्रतापस्ते । गुरुवर ! यथा यथा किल, वृद्धिं लभते तथा तथैवाऽयम् ॥१०६ ॥ विकल्पः अयि दुःखतप्त चेतन ! संक्लिश्यसि किं भयेन ममतायाः ? । दुःखहर नेमिगुरोः कुरुष्व शरणं स्मरणमथवा ॥ १०७ ॥ विकल्पः-२ भवतु मदीये चित्ते संक्लेशो मोहसम्भवः सभवः । अथवा नेमिगुरोर्भव- संक्लेशहरं चरणशरणम् ॥ १०८॥ समुच्चयः यस्योपरि ते गुरुवर ! निपतति घष्टिः कृपाम्बुवृष्टिमयी । तुष्यति तृप्यति पुष्यति भवति स्वच्छं च तस्य मनः ॥ १०९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001474
Book TitleNamu Guru Nemisuri Sansarma
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherVijaynemisuri Gyanshala Ahmedabad
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Gujarati & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy