________________
॥८६॥
॥ ८७॥
॥८८॥
॥९० ॥
॥९१ ॥
समम् हृदयमतीव सुकोमल - मथ तत्र कृपाऽपि राजते परमा । अनुरूप एव गुरुवर ! संयोगस्त्वयि हृदय- दययोः
समम् - २ गुरुवर ! सागरतीरे मधुपुर्यामाप्तजन्मनो भवतः । युक्ता गभीरिमा किल धिक्कृततुच्छत्वमहिमेयम्
समम् - ३ भवभीतिविशरणार्थ - मितस्ततो भ्राम्यता मयाऽकस्मात् । प्राप्तं विशिष्टशरणं नेमिगुरूणां भवाऽपहरम्
विचित्रम् श्रीजिनवचने भगवति, करोति रतिमाप्तुमेव भवविरतिम् । योऽसौ नेमियतिपति-दुर्गतिप्रतिबन्धको जयति
अधिकम् गुरुवर ! भवतो हृदये-ऽनुपमेयाऽमेयसद्गुणा मान्ति । किन्तु न मान्तीव कृपा, व्याप्ता विश्वेऽत्र विश्वस्मिन्
- अधिकम्-२ परकीयगुणाणुरपि युष्मच्चित्ते शिलोच्चयीभवति । श्रीनेमिसूरिगुरुवर! चरितं तव चारुताभरितम्
अल्पम् दोषकणोऽपि परेषां, सूक्ष्मायामपि न युष्मदीयायाम् । दृष्टावलं प्रवेष्टुं, गुरुवर! महतो महीयोऽदः
अन्योऽन्यम् नेमिगुरोः शिष्यचयो, गुरुभक्त्या प्रीणयति यथा स्वगुरुम् । वात्सल्यवर्षणेना-ऽऽनन्दयति तथैव सोऽपि शिष्यगणम्
विशेषः त्वदभावेऽपि त्वत्कृत-सुकृतानां तीर्थरक्षणादीनाम् । प्रह्वीकरोति गाथा गुरुवर ! सहृदयहृदयानि भव्येयम्
विशेषः-२ तीर्थे तीर्थे गरुवर ! परोक्षरूपेण श्यते हि भवान् । रक्षोद्धारविकासा- दिककारी भूरितीर्थानाम्
विशेषः-३ नेमिगुरूणां चरणा-वुपासमानेन शिष्यवृन्देन । ईप्सितप्राप्त्या क्लुप्तं कल्पदुरुपासितोऽस्माभिः
व्याघातः ये विषया आनन्दं ददतेऽखिललोकमानसाय सदा । तानेव दुःखदास्ते कृत्वेति त्यक्तवान् भवांश्चित्रम्
॥ ९२ ॥
॥९३ ॥
॥९४॥
॥ ९५ ॥
॥९६ ॥
॥९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org