Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad
Catalog link: https://jainqq.org/explore/001474/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ નમું ગુરુ નેમિસૂરિ સંસારમાં Wain Education International Fore - Page #2 -------------------------------------------------------------------------- ________________ श्रीनेमि – नन्दन - ग्रन्थमाला – १२ अलकारनेमि : (सचित्र :)॥ रचयिता : पूज्यपादाचार्यश्री विजयसूर्योदय सूरीश्वर शिष्य ___पं. शीलचन्द्रविजय गणी शासनसम्राट् – दीक्षाशताब्दीवर्षम् : वि. सं. १९४५ - २०४५ ज्येष्ठ शुदि ७ प्रकाशिका 'श्री जैनग्रन्थप्रकाशन समिति, खम्भात. प्राप्तिस्थानम् श्री विजयनेमिसूरिज्ञानशाला, पांजरापोल, अमदावाद - ३८०००१ मुद्रक : १. चित्र विभागे = नन्दन ग्राफिक्स। हरीन्द्र – हेमेन्द्र शाह, दोशीवाडानी पोळ, . अमदावाद - १ २. ग्रन्थविभागे = अमृत प्रिन्टर्स, अमदावाद – १ फोन : ३६९८५२ પ. પૂ. શાસનસમ્રાટશ્રીનાં આજ્ઞાવર્તિની સાધ્વીજી શ્રી કમળપ્રભાશ્રીજી મહારાજની પુણ્યસ્મૃતિમાં તેમનાં પુત્રી - શિષ્યા સાધ્વીશ્રી સૂર્યપ્રભાશ્રીજી મ. ની પ્રેરણાથી શ્રી ગુરુભક્તિનિમિતે સમર્પિત muslimmininamannirmaantar Page #3 -------------------------------------------------------------------------- ________________ 13 (38) त्वदीयं तुभ्यमर्पये પૂજનીયચરણ, સ્પૃહણીયચરિત, સંધનાયક આચાર્યભગવંત શ્રી વિજ્યનન્દનસૂરીશ્વરજી મહારાજે, પંદરેક વર્ષ પૂર્વે એક દહાડો, એક પાનું દેખાયું. એ પાનામાં પ. પૂ. સૂરિસમ્રાટકીની સ્તવનાના આશરે ચૌદેક શ્લોકો લખ્યા હતા. તેઓશ્રીએ કહ્યું : “અલંકાર ગ્રંથમાં જેટલા કાચાલંકારો આવે છે, તે તમામનો ઉપયોગ કરી એક સ્તુતિ-કાવ્ય-ગ્રંથ રચવાની અભિલાષા હતી; અને એનો આરંભ પણ થયેલો, પણ આ થોડાક શ્લોકો બન્યા પછી અધૂરું જ રહી ગયું એ કામ; બની શકે તો તું કયારેક આ કામ કરજે." - પૂજ્યશ્રીની એ ઈચ્છા અને આજ્ઞાનું પરિણામ તે આ #ારનેજિ. તેઓશ્રી શાસનસમ્રાટ પરમગુરુભગવંતને પરમદયાળું તથા કલ્પવૃક્ષ તરીકે માનતા અને વર્ણવતા. ગુરુને કલ્પવૃક્ષ કલ્પીને તેમની પાસેથી વણમાગ્યે જ સઘળુંય . મેળવવાની સિદ્ધિ પ્રાપ્ત કરનારા એ પૂજયપુરુષની કૃપાનું જ એ પરિણામ છે, જે મુજ સમા પામરને પણ, આ રીતે, કલ્પવૃક્ષની યત્કિંચિત બાલસુલભ સેવા-સ્તુતિ કરવાનું સૌભાગ્ય સાંપડયું. આર્યા” છંદમાં ભક્તિભર હૈયે રચાયેલી આ કૃતિમાં ક્ષતિઓ રહી હોય તેવો પૂરો સંભવ છે. મર્મજ્ઞો તે વિશે સૂચન કરવાની કૃપા કરે. અંતમાં, જે પૂજયપુરુષની અભિલાષા અને આજ્ઞાથી આ ઉપક્રમ કરવાનું સૂઝયું, તેઓના જ શ્રીચરણોમાં “આપનું, અર્યું આપને” એ ન્યાયે અર્પતો વિરમું છું. શ્રીવિજયનેમિસૂરિજ્ઞાનશાળા, અમદાવાદ શાસનસમ્રાટ-દીક્ષાશતાબ્દી વર્ષ શીલચન્દ્રવિજ્ય સં. ૨૦૪૫ વિજ્યાદશમી Page #4 -------------------------------------------------------------------------- ________________ ॥ २ ॥ अलङ्कारनेमिः रचयिताः पं. शीलचन्द्रविजय गणी निर्दोषं गुणकलितं, सद्ब्रह्मालङ्कृतं सुकाव्यमिव । यज्जीवन, प्रकुर्वे, तन्नेमिगुरोः स्तवनरचनाम् श्रीनन्दनसरीश्वर – निर्देशाच्छीलचन्द्रनामाऽहम् । विदधे सद्गुरुभूक्तया, ग्रन्थमलङ्कारनेम्यभिधम् उपमाःसद्बोधदीप्तिभासुर - ईष्टे योऽज्ञानतिमिरमपहर्तुम् । सूर इव नेमिसूरि - विहरत्वनिशं स शासनाकाशे ॥३॥ अनन्वयः ऐदंयुगीनगच्छा - धिपेषु दुर्द्धर्षतेजसा भाति । श्रीनेमिर्ने मिरिव प्रतापपुजः प्रधानतमः ॥ ॥ ४ ॥ उपमेयोपमा यस्य प्रौढप्रताप - श्चक़ास्ति मार्तण्डताप इव चण्डः । तापोऽर्कस्य च स इवा - ऽसौ जयतान्नेमिसूरिवरः । ॥५॥ प्रतीपम् - १ त्वत्प्रवचननिर्घोषै - स्तुल्यं गर्जन्त्यरण्यके हरयः । त्वामुपमिन्वन्ति मुधा, विबुधा हरिणा दयालुहृदय ! गुरो! ॥६॥ प्रतीपम् - २ रे जलद ! माऽवलेपं, करु निजगर्जारवस्य प्रखरत्वे । यत् तदुपममिह नेमिः, सूरिगर्जति हि देशनासमये प्रतीपम् - ३ चेन्नेमिसूरिवदनं, दृष्टं तद्वाक् श्रुता च भवविपिने । हरिदर्शन - तद्गर्जा - कर्णनमस्त्यर्थहीनमिह ॥८॥ रूपकम् - १ साक्षादसौ विभाति, जगद्गुरुहीरविजयसूरिवरः । भूपप्रतिबोद्धाऽभय - दाता तपगच्छनेता च ॥१०॥ रूपकम् - २ अभिषेकं दिग्विजयं रिपुभङ्गं सङ्गरं विनैवाऽसौ । जिनशासनसाम्राज्ये "सम्राड" भवद् गुरुर्नेमिः रूपकम् - ३ विबुधानामिव मनुजा – नामपि पूज्यः शतक्रतुलः । नन्दतु नेमिगुरुरयं, लोकं श्रुतचक्षुषाऽऽकलयन् ॥१२॥ रूपकम् -४ युगप्रधाना यदि नो, दृष्टा विषमारके ननु ततः किम् ?। ।.. जङ्गमयुगप्रधानो, नेमिगुरुर्यत इहैवाऽऽस्ते ॥१३॥ ॥ ७ ॥ - - ॥ ११ ॥ Jain Education international -For-Privaterarriersonal use Orily www.jamelibrary.org Page #5 -------------------------------------------------------------------------- ________________ ॥१७॥ ॥१८ ॥ ॥ १९॥ रूपकम् - ५ नेमिनूतनसूर्यो - ऽस्त्यस्ताचलरोहणेन रहितोऽयम् । उष्णरुचेरतिरिच्यत - एषोऽकर्कशकरो नु नेम्यर्कः ॥१४॥ परिणामः अभयं नेमिव्याघ्रो, दत्ते षट्कायमृगचयाय तथा । रक्षति तं हिंस्रगणा - दहो ! महच्चरितमतिचित्रम् ॥ १५ ॥ उल्लेखः सधैर्युगप्रधानः, शिष्यैः कल्पदुमश्च, भूपालैः।। यो गुरुरमन्यत निजः, स नेमिसूरिददातु शिवम् ॥१६॥ उल्लेखः- २ तापापगमे सोमो विबुधानां सदसि यो गुरुर्वाग्ग्मी । चक्री सूरिसमाजे, स राजतां नेमिगुरुराजः स्मृतिः गुरवः कुमारराजः, स्मर्यन्ते हेमचन्द्रसूरीन्द्राः । भूपान् समुपदिशन्तं, यं दृष्ट्वाऽयं जयतु गुरुराट् भ्रान्तिः सत्त्वं पवित्रतामपि, यस्य विलोक्यैव दैवतं मनुजाः । मन्यन्ते यं मुनिपं, तं वन्दे नेमिसूरिवरम् सन्देहः नेमिगुरोरतिप्रतिभा - दीप्तिं संवीक्ष्य मामकीनमतिः । सूर्योऽयं सिंहो वा ?, निर्णेतुं नेति शक्तिमती ॥ २० ॥ अपहनुतिः नेमिर्जगद्गुरुतया, ख्यातो जगतीह यद्यपि परन्तु । नैष जगद्गुरुरपि तु, स्वयं नृदेहे जगच्चक्षुः ॥ २१॥ हेत्वपर्तुतिः किमयं शिखरी ? नहि स हि कठिनः, किम केसरी ? नहि स हिंस्रः । जीवदयाकुलकोमल - चेतःकलितोऽस्त्यसौ स्वगुरुः ॥२२॥ . पर्यस्तापनुतिः न शिलोच्चयो हि शैलः, शैलस्तु सुशीलनेमिसूरिरयम् । प्राणात्ययेऽप्यविचल - व्रती तथाऽतीव धीरमतिः ॥२३॥ भ्रान्तापह्नुतिः विह्वलयति मां भीतिः, किं दुष्कृत्यस्य ? नैव, नेमिगुरोः । इत्येवं जिनशासन - रिपवोऽन्योऽन्यं वदन्त्यधुना छेकापह्नुतिः नेमिगुरोरसहसहो – ऽनुभूय गलितं सखे ! मदीयेन । किमहङ्कारेण खलु ? नहि नह्यज्ञानतिमिरेण ॥ २५॥ ॥२४॥ Page #6 -------------------------------------------------------------------------- ________________ ॥ २८ ॥ कैतवापनुतिः जिनवचनोपवनान्त - विकसितसुरभितसुचरितपुष्पाणि । नेमिगुरोर्वचनमिषाद् वर्षन्ति श्रोतृकर्णेषु ॥ २६ ॥ उत्प्रेक्षा सद्गुणसमुद्रमथनं कृत्वाऽप्य कृपाऽमृतं प्रपीय च तत् । नेमिरभूद् भूमितले शङ्केऽभिनवः सुधांशुरसौ ॥ २७॥ उत्प्रेक्षा - २ श्रीनेमेरकलङ्क प्रकाशधर्मित्वमनुपमं वीक्ष्य । तदवाप्तुमिव तपस्यति शशाङ्क आकाशमण्डपेऽद्यापि रूपकातिशयोक्तिः यत्स्पर्शन-दर्शनतः स्मरणादपि पापकर्दमः शुष्येत् । शुद्धयेच्चित्तं च नृणां, तज्जङ्गमतीर्थमभिवन्दे ॥ २९ ॥ सापह्नवातिशयोक्तिः गुरुदेव ! तावकीने पीनेऽदीने ह्यगाधहृद्देशे । प्रतिष्ठितं गाम्भीर्य, मूढास्तु तदर्णवेऽनुमिन्वन्ति ॥ ३० ॥ भेदकातिशयोक्तिः लोकोत्तरः प्रतापो – ऽनुपमेया ब्रह्मचर्यनिष्ठा च । भवभीरुताऽप्यनन्या, सर्वमसामान्यमस्य गुरोः ॥३१॥ ___ सम्बन्धातिशयोक्तिः यद्ब्रह्मचर्यदीप्त्या विश्वं देदीप्यते ज्वलज्ज्योतिः । तं प्रणिपतामि नेमिं मुनिमण्डलमौलिमुकुटसमम् ॥३२॥ असम्बन्धातिशयोक्तिः नेमिगरो ! तव कीर्ति – दिशि दिशि पर्यटति तेन तद्गानम् । नैव करोमि, न वयं स्वैरत्वं यत् कदाचिदपि ॥ ३३ ॥ अक्रमातिशयोक्तिः वर्धन्त एव सार्धं सुकृतानि यशांसि नेमिसूरीणाम् । विफलीकृतकुकृतानि झङ्कृतजनचेतनानि तथा ॥ ३४॥ चपलातिशयोक्तिः विपदां हरणं प्रहरण - मपि दोषाणां स्वपुण्यशोषाणाम् । नेमिगुरूणां शरणं स्वीकर्ता तत्क्षणं विगतपापः ॥ ३५ ॥ अत्यन्तातिशयोक्तिः प्रथमं गच्छति कीर्ति - स्ततः प्रतापस्ततः स्वयं सूरिः। क्षेत्रे विहारविषये, क्रमः समस्तीह सूरीणाम् ॥३६॥ ___ तुल्ययोगिता वचनानि नेमिमुखतः पापध्वान्तान्यथो जनस्वान्तात् । निर्गच्छन्ति हि महता - मनुभावो वर्णनातीतः ॥३७॥ Page #7 -------------------------------------------------------------------------- ________________ ॥३८॥ ॥ ३९॥ ॥ ४० ॥ ॥४१॥ ॥४२॥ ॥४३॥ तुल्ययोगिता -२ श्रीनेमिसूरियशसो दृष्ट्वोज्ज्वलिमानमद्य मे हृदये । कर्पूरफेनपूरा – ऽकूपारजलादि भाति धूसरितम् तुल्ययोगिता - ३ रागी वा द्वेषी वा, स्यात् कोऽपि तथापि सोऽस्य नोस्वीयः । वन्दक-निन्दकयोरपि, समः स मम गुरुवरो नेमिः . तुल्ययोगिता - ४ कश्मीरजं मलयजं कस्तूरीत्यादि सकलमपि सुखदम् । श्रीनेमिसूरिराजा-मनुपभगुणकदम्बकं चापि । दीपकम् । शारदचन्द्रज्योत्स्ना प्रसरत्यम्बरतलेऽर्पयति शैत्यम् । श्रीनेमिसूरिराजां क्षितिमण्डलमण्डपे तथा स्फातिः आवृत्तिदीपकम् हरति मनांसि जनाना – मुत्कृष्टा चरणपद्धतिर्यस्य । हरति च यो मारजये, जयेत्स सूरीश्वरो जगत्पूज्यः आवृत्तिदीपकम् - २ शान्तिं यान्ति मुनिजना व्रजन्ति निश्चिन्ततां सकलसङ्घाः । श्रीनेमिसूरिराजे नेतृत्वं कुर्वतीह सङ्घस्य आवृत्तिदीपकम् - ३ रज्जयतु नेमिसूरे – गुणगानं मानसं गुणिजनानाम् । रञ्जयतु च तच्चरितं निरतीचारं दयासारम् प्रतिवस्तूपमा अष्टाङ्गो योगो यदि प्रसाध्यते तर्हि यच्छति स सिद्धिम् । शिष्याष्टककलितोऽयं प्रसेव्यते यदि, ददाति धर्म तत् दृष्टान्तः जिनशासनाधिपत्यं कर्तुं श्रीनेमिसूरिरेवाऽलम् । सकलकुवलयोल्लासं विधुरेव विधातुमिह शक्तः निदर्शना यन्नेमिसूरिभगव - च्छासनपरिपालनं विनेयकृतम् । तद् बालस्याऽऽश्रयणं स्वमातुरुत्सङ्गकेऽभयदम् निदर्शना - २ गुरुदेव ! अमत्कं भव्यं मुखमण्डलं बिभर्तीह । वनराजवदनशोभां विलक्षणं ही सतां सकलम् निदर्शना - ३ यः स्पर्धेत बलवता स पतेदिति बोधयन्त एतेऽद्य । सङ्घद्वेषिमनुष्याः पतन्ति गुरुनेमिपादयुगे ॥४४॥ ॥४५॥ ॥४६ ॥ ॥४७॥ ॥४८॥ ॥ ४९॥ Page #8 -------------------------------------------------------------------------- ________________ निदर्शना - ४ उपशमयति सन्तापं शरणगतानामसौ गुरुर्नेमिः । महदाश्रयः सदैव हि योगक्षेमद इति प्रथयन् ॥ ५० ॥ व्यतिरेकः जयतु स नेमिगुरुवरो बोधनटीप्रकटनोऽप्रकम्प्रश्च । प्रतिभोत्तुङ्गो नग इव किन्तु लसच्चेतनाकलितः ॥५१॥ सहोक्तिः आवृण्वन्ति समग्रं भारतवर्ष यदीयसुकृतानि । निर्मलयशसा साकं स नेमिसूरिः श्रियेऽस्माकम् ॥५२॥ विनोक्तिः नेमिगुरूणां गुरुगुण - वर्णनमाकर्णितं न येनेह । तस्य कृतार्थमपि जनु - न चमत्कुरुते मदीयमनः ॥ ५३॥ विनोक्तिः- २ यद्यपि गुरुवर ! भवतां स्वान्तं गुणकान्तमथ प्रकृतिशान्तम् । तदपि विना सङ्क्लेशं तद् राजति कान्तशान्ततरम् ॥ ५४॥ समासोक्तिः “अरुणोऽयं परिकुप्यति तमसे, प्रतिबोधयति च कमलानि ।” कल्पन्ते नेमिगुरोः शिष्या इति वीक्ष्य गुरुचरितम् ॥५५॥ परिकरः तीर्थानां जीर्णानां हृदयानामपि च पापशीर्णानाम् । उद्धारकः स नेमिः स्मरतापादुद्धरत्वथ माम् ॥५६॥ परिकराङ्कुरः अनुशास्ति जैनशासन - साम्राज्यं चाधिपत्यमपि कुरुते । श्रीसङ्घस्याऽप्रतिम शासनसम्राट् सदा जयतात् ॥ ५७ ॥ श्लेषः हरति मनोभवभेदी सभाजनं सद्गुणव्रजस्याऽहंन् । सहितश्चित्तविशुद्धया बोधिं विदधातु गुरुनेमिः ॥५८॥ श्लेषः- २ यः सन्मानसहंसो हंसोऽपि च भव्यपुष्करे भवति । स शिवोभयदो भवतु सदायतिर्नेमिसूरीशः ॥ ५९ ॥ अप्रस्तुतप्रशंसा गुरुदेवाऽऽदाय तव प्रदीप्ततेजःकणानिमे किरणाः । उष्णा अर्यम्णः खलु सजाता एवमाभाति ॥६०॥ ___ अप्रस्तुतप्रशंसा - २ तेजोऽस्य चेदसह्यं पष्णो दर्पण किं तदा, ऽयं चेत् । अभिलषितार्थप्रदस्तद् वृक्षत्वं भवतु कल्पतरोः । ॥६१ ॥ Jain Education international Page #9 -------------------------------------------------------------------------- ________________ प्रस्तुताङ्कुरः रे रे चकोर - चेतः, पूर्णेन्दुश्चेल्लसत्यसौ सुगुरुः । हन्ताऽष्टमन्दावगुरौ गाढासक्तिस्तवेयं का ? प्रस्तुताङ्कुरः- २ भो भाविका! भवद्भि मिथ्यात्वाक्रान्तचेतसो गुरवः । सेव्यन्ते कथमिव ? यदि नेमिरसौ विद्यते सुगुरुः पर्यायोक्तम् जीर्णं प्रत्नं तीर्थं कदम्बगिरिनामकं समुद्धृतवान् । यस्तं प्रणौमि भक्तया, शरणीकृततच्चरणयुगलः व्याजस्तुतिः तेजस्विताऽत्रभवतां केयं गुरुराज ! यद् विरोधिजनाः । दृश्यन्ते समदृष्ट्या क्रियते तेषु च दयावृष्टिः व्याजस्तुतिः - २ गायसि गुणांश्च प्रथयसि सच्चरितं, रटसि नाम नेमिगुरोः । जिवे ! कुत इदमाप्तं भाग्यं ? वद मामदृष्टगुरुम् व्याजनिन्दा नेमिगुरो ! क्रूरोऽयं कर्मनृपो यत्त्वदीयपत्कजयोः । सेवां नैवाऽदान्मां त्वत्स्वर्गाप्तेरनु धृताङ्गम् आक्षेपः बन्धो ! सिन्धोस्तीरे - ऽन्वेष्टुं रत्नानि चल वयं यामः । अथवाऽलं तेन यतो गुणरत्नाब्धिः समस्त्ययं नेमिः आक्षेपः- २ नेमिर्नहि धर्मगुरुः किन्त्वास्ते ब्रह्मतेजसः प्रतिमा । ननु नैष प्रतिमाऽपि तु सत्त्वगुणस्तत्त्वतो जीवन् आक्षेपः- ३ कुरु कुरु दुर्जन ! गह गुणार्हगुरुनेमिसूरिणो नितराम् । सन्तस्त्वत्तो बिभ्यतु त्यजन्तु मैत्रीं च तव कामम् विरोधाभासः गुरुरप्यगुरुः क्लेशैः समोऽपि यो राजतेऽसमो बुद्धया । अममोऽपि च यः, स मम, प्रगुरुप्रगुरुप्रगुरुरवतात् विभावना सैन्यं न मन्त्रिणो नहि नहि कोशो नापि शस्त्रमस्त्रं वा । तदपि पराजितमदनः सूरिषु राजा जयत्येषः २ विभावना नाशितवाननतिरुषा रोषादीन् षड् रिपून् शमीशो यः । मान्यसामान्यगुणो धन्योऽनन्यः स मे गुरुर्जयतात् - ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६५ ॥ ।। ६६ ॥ ॥ ६७ ॥ ॥ ६८ ॥ ॥ ६९ ॥ ।। ७० ।।। ॥ ७१ ॥ ।। ७२ ।। ॥ ७३ ॥ Page #10 -------------------------------------------------------------------------- ________________ विभावना - ३ पल्लवयति पाषाणान् यद्वागमृतं तिरस्कृतवदनृतम् । मङ्गलवचनोऽकिञ्चन - मुख्यः सौख्याय स गुरुः स्तात् ॥७४ ॥ विभावना -४ गुरुवचनश्रवणादनु - भूयत इह शर्करारसो मधुरः । श्रीनेमिवदनचन्द्रात् तिग्मा दीप्तिः समुद्भवति, चित्रम् ! ॥७५ ॥ विभावना - ५ युष्मत्कृतेन तीर्थों - द्धरणेनाऽकारि युष्मदुद्धारः। चित्रं महतामर्थस्तैरेव कृतात् सरति कार्यात् । ॥ ७६॥ विभावना - ६ दृष्टा नदी गिरिभवा क्वचनापि गिरिनदीभवो नाऽऽप्तः । किन्त्वद्य नेमिगुरुवार - नद्याः पुण्याविरुद्गतश्चित्रम् ॥७७ ॥ विशेषोक्तिः सत्यपि बाहुल्ये खलु प्रत्यूहानां विरोधिनां चैव । नाऽऽपि विफलता स्वीये सत्कर्मणि येन, गुरूरसौ जयतात् ॥ ७८ ॥ असम्भवः तीर्थसमहं प्रत्नं पुनरुद्धर्ता स्वकीयप्राणपणैः । जङ्गमतीर्थसमोऽभूद्, गुरुरिति केनैष्यतीह विश्वास्यम् ? ॥ ७९ ॥ असङ्गतिः त्वद्वाक्सुधाभिषेको जातो मच्छोत्रयोः प्रभो ! किन्तु । दुर्गुणविषप्रभावा – न्मुक्तं मच्चेतसा तु, चित्रमिदम् ! असङ्गतिः- २ स्वीयमनोभुवि कर्तुं, ज्ञानालोकं त्वया प्रवृत्तेन । विहितः स एव शिष्य - स्वान्तेष्वद्भुतमदो गुरो ! भवतः ॥८१ ॥ असङ्गतिः- ३ गुरुवर ! भवदीयं खलु निखिलं लोकोत्तरं कथं वर्ण्यम् ? । . तीर्थोन्नतिप्रवृत्तः कृतवान् स्वात्मोन्नतिं हि भवान् विषमम् शासनसम्राजां क्वा- ऽतुलनिर्मलबुद्धिबलविलासः सः ? । क्वाऽप्युत्सूत्रनिरूपण - दक्षा विद्वेषिणो वराकास्ते ? ॥८३॥ विषमम् - २ गुरुवर ! तवाऽनुशिष्टिः कठिन-कठोराऽपि शिष्यहृदयेषु । सद्भावसौकुमार्यं जनयत्येतत् परं विरलम् ॥८४॥ विषमम् - ३ "मुनिरेष, नैव हिंस्यात् कमपी ति विभाव्य दुर्गुणौघस्त्वाम् । उत्कः श्रयितुं गुरुवर !, त्वया तु निर्मूलनं कृतं तस्य ॥८५॥ ॥८०॥ ॥ ८२॥ Jain Education internat For private & Personal use only Page #11 -------------------------------------------------------------------------- ________________ ॥८६॥ ॥ ८७॥ ॥८८॥ ॥९० ॥ ॥९१ ॥ समम् हृदयमतीव सुकोमल - मथ तत्र कृपाऽपि राजते परमा । अनुरूप एव गुरुवर ! संयोगस्त्वयि हृदय- दययोः समम् - २ गुरुवर ! सागरतीरे मधुपुर्यामाप्तजन्मनो भवतः । युक्ता गभीरिमा किल धिक्कृततुच्छत्वमहिमेयम् समम् - ३ भवभीतिविशरणार्थ - मितस्ततो भ्राम्यता मयाऽकस्मात् । प्राप्तं विशिष्टशरणं नेमिगुरूणां भवाऽपहरम् विचित्रम् श्रीजिनवचने भगवति, करोति रतिमाप्तुमेव भवविरतिम् । योऽसौ नेमियतिपति-दुर्गतिप्रतिबन्धको जयति अधिकम् गुरुवर ! भवतो हृदये-ऽनुपमेयाऽमेयसद्गुणा मान्ति । किन्तु न मान्तीव कृपा, व्याप्ता विश्वेऽत्र विश्वस्मिन् - अधिकम्-२ परकीयगुणाणुरपि युष्मच्चित्ते शिलोच्चयीभवति । श्रीनेमिसूरिगुरुवर! चरितं तव चारुताभरितम् अल्पम् दोषकणोऽपि परेषां, सूक्ष्मायामपि न युष्मदीयायाम् । दृष्टावलं प्रवेष्टुं, गुरुवर! महतो महीयोऽदः अन्योऽन्यम् नेमिगुरोः शिष्यचयो, गुरुभक्त्या प्रीणयति यथा स्वगुरुम् । वात्सल्यवर्षणेना-ऽऽनन्दयति तथैव सोऽपि शिष्यगणम् विशेषः त्वदभावेऽपि त्वत्कृत-सुकृतानां तीर्थरक्षणादीनाम् । प्रह्वीकरोति गाथा गुरुवर ! सहृदयहृदयानि भव्येयम् विशेषः-२ तीर्थे तीर्थे गरुवर ! परोक्षरूपेण श्यते हि भवान् । रक्षोद्धारविकासा- दिककारी भूरितीर्थानाम् विशेषः-३ नेमिगुरूणां चरणा-वुपासमानेन शिष्यवृन्देन । ईप्सितप्राप्त्या क्लुप्तं कल्पदुरुपासितोऽस्माभिः व्याघातः ये विषया आनन्दं ददतेऽखिललोकमानसाय सदा । तानेव दुःखदास्ते कृत्वेति त्यक्तवान् भवांश्चित्रम् ॥ ९२ ॥ ॥९३ ॥ ॥९४॥ ॥ ९५ ॥ ॥९६ ॥ ॥९७॥ Page #12 -------------------------------------------------------------------------- ________________ कारणमाला सत्सङ्गेन सुमार्गा-नुसरणमथ तेन पुण्ययोगः स्यात् । पुण्येन नेमिगुरुपदसेवाऽथ तयाऽभिलषितसम्प्राप्तिः॥ ॥ ९८॥ एकावलिः निःस्पृहता निर्दैन्या, दैन्याभावोऽतितेजसा ज्वलितः। तेजः शमरसरसितं, यस्मिन् विलसन्ति तं स्तुवे नेमिम् ॥९९ ॥ मालादीपकम् मनसि मनसिजाद् भीति-मनो हि तन्नाशिगुरुपदे रमते । नेमिगुरो ! भयरहितं मनोरमं देहि परमसुखम् ॥ १०० ॥ . सारः अस्त्युन्नतो हिमाद्रि- स्ततोऽपि जलदस्ततोऽपि नेमिगुरोः । प्रतिभाभरः शमसुधां वर्षन् भुवनेऽत्र भव्यतरः ॥१०१॥ यथासङ्ख्यम् कुगुणान् गुणान् गुणज्ञान् शोषयति च पोषयति च तोषयति । यतिततिपतिरतिकुमति- नेमिगुरुर्यः श्रिये सोऽस्तु ॥१०२ ॥ पर्यायः प्रथमं हेमाचार्यं तदनु श्रीहीरविजयसूरीन्द्रम् । प्रवचनप्रभावकश्रीः श्रिता ततो नेमिसूरीशम् ॥ १०३॥ __ पर्यायः-२ प्रथमं सरिप्रवरः, शासनसम्राट् ततोऽभवत् पुण्यैः । तदनु च जगद्गुरुतया, प्राप्तः ख्यातिं गुरुर्नेमिः ॥ १०४॥ परिवृत्तिः दत्वा जलाञ्जलिं किल ममतायै, साम्यसागरो येन ॥ सम्प्रातः, स्ताद् भूत्यै विभूतिमान्नेमिसूरिः सः ॥ १०५ ॥ परिसव्या गच्छति दाहकभावं दिनकरतापो न तु प्रतापस्ते । गुरुवर ! यथा यथा किल, वृद्धिं लभते तथा तथैवाऽयम् ॥१०६ ॥ विकल्पः अयि दुःखतप्त चेतन ! संक्लिश्यसि किं भयेन ममतायाः ? । दुःखहर नेमिगुरोः कुरुष्व शरणं स्मरणमथवा ॥ १०७ ॥ विकल्पः-२ भवतु मदीये चित्ते संक्लेशो मोहसम्भवः सभवः । अथवा नेमिगुरोर्भव- संक्लेशहरं चरणशरणम् ॥ १०८॥ समुच्चयः यस्योपरि ते गुरुवर ! निपतति घष्टिः कृपाम्बुवृष्टिमयी । तुष्यति तृप्यति पुष्यति भवति स्वच्छं च तस्य मनः ॥ १०९ ॥ Page #13 -------------------------------------------------------------------------- ________________ ॥११० ।। ॥ १११ ॥ ॥ ११२ ॥ ॥ ११३ ॥ ॥ ११४ ॥ ॥११५ ॥ समुच्चयः-२ तीर्थोद्धारे प्रीति - भवभीतिश्चाऽहितेऽनुकम्पैव । प्रवचनरागः प्रबलो, विशदयति महात्मता गुरो ! भवतः कारकदीपकम् त्वन्नामश्रवणादपि पापासक्ता जना गुरुवरेण्य !। क्षुभ्यन्ति बिभ्यति तत-स्त्यजन्ति निजदूषिताचारम् समाधिः प्राणान्तेप्युद्धार्यं “कापरडा तीर्थमिति विनिश्चितवान् । गुरुवर ! भवां,स्तदैव च, मरणभयमपगतं भवन्मनसः प्रत्यनीकम् वसुधातले विहरता सुधांशुरक्षीणतागुणेनैव । गुरुवर !भवताऽपास्त-स्तत इव गगनेऽयमारूढः अर्थापत्तिः भवताऽऽन्तररिपुवन्दं निर्जितमर्जितनिजात्मवीर्येण । अथ शासनमत्सरिणां गुरुवर ! कतरत्तु सामर्थ्यम् ! ___काव्यलिङ्गम् रे रे मनोभव ! परा –भव मनो मा ममाऽतिनिर्मम रे !। निकटेऽस्ति तव विनाशो, नेमिगुरोः स्वीकृतं मया शरणम् अर्थान्तरन्यासः श्रीनेमिसूरिराजैः समर्पितं जीवनं निजं निखिलम् । . जिनशासननसेवायां, सत्कर्मार्थं जनुः सतां भवति विकस्वरम् श्रीनेमिरिगुरुभिः क्लेशाः शमिता अनेकसङ्घानाम् । शान्तिप्रिया हि ऋषयो ब्रह्मर्षिवसिष्ठवन्नियतम् प्रौढोक्तिः । श्री हीर- सेन- देवा- चार्याणां चैव विजयसिंहानाम् । समता-प्रताप-पुण्या-ऽऽराधनकणनिर्मितो नेमिः सम्भावना गुरुवर ! भवदुपमानं चेत् सृष्टौ विश्वसृट् सृजेन्नूत्नम् । सकलविलक्षणतेजा – स्तर्युपमेयो भवेत्तु भवान् मिथ्याध्यवसितिः दिनकरकरनिकरं यो गणयेन्निपुणो गुणी करग्राहम् । सुकरं तस्य प्रयातुं नेमिगुरोर्गुणतरङ्गिणीतीरम् ललितम् शारदशशाङ्कमण्डल - माच्छादयितुं निजैः करतलैस्ते । अश्रान्तं प्रयतन्ते नेमिगुरो ! त्वद्विरोधिजनाः ॥ ११६ ॥ ॥ ११७ ॥ ॥ ११८ ॥ ॥ ११९ ॥ ॥ १२० ॥ ॥ १२१ ॥ Page #14 -------------------------------------------------------------------------- ________________ प्रहर्षणम् त्वच्चरितकीर्तनं मे चिरकालाद् वाञ्छितं गुरुप्रवर ! । अद्याऽकस्मादाप्त बन्दित्वं तव गुणेषु, धन्योऽहम् । ॥ १२२ ॥ प्रहर्षणम्-२ गरुवर!भवाब्धितरणं जिनशासननौकया त्वयेष्टं प्राक । चित्रं नौकाधिपति - स्त्वमेव सङ्घन विहितः नाक! ॥१२३ ॥ प्रहर्षणम्-३ "रक्षार्थं कादम्बा-चलस्य राजन्यकानपदिशामि" । इति तत्र त्वं यात- तीर्थं तैस्तूपदीकृतं तुभ्यम् ॥ १२४ ॥ विषादनम् “अधुनैव युक्तिवचनैः सूरिं तं निरुत्तरीकरिष्यामः" । इति सामर्षागतपर-तीर्थमुखं ननु बबन्ध मुद्रा ते ॥ १२५ ॥ उल्लासः नेमेर्हदयप्रपायां विलसद् विमलं कृपाजलं सम्यक् । प्रक्षालयतु मम मलं, गालयतु ज्ञानतृषमथ च ॥ १२६ ॥ उल्लासः-२ गुरुवर ! भवतोऽलयं, शासनमुल्लघयन्ति हतदैवाः। तत्कटुकफलानुभवना- वसरे कुप्यन्ति ननु विधये ॥ १२७ ॥ उल्लासः-३ स्वीयोऽयं परकीयो -ऽयं चेति द्वैतमुक्तचैतन्ये । त्वय्यपि च पक्षपातं, कल्पन्ते येऽज्ञता हि सा तेषाम् ॥ १२८ ॥ उल्लासः-४ इष्टापत्तिरियं खल खला न खेलन्ति यत्तव गुणेषु । भेदः सत्खलयोर्ननु कर्तुं लोको भवेदतः शक्तः ॥ १२९ ॥ अवज्ञा गुरुवर ! गुणरत्नानां रोहणपर्वतसमानमाप्य त्वाम् । मयका द्वित्रगुणा अपि नाऽवाप्ता, मन्दभाग्योऽहम् ॥ १३०॥ अवज्ञा -२ चित्तविशोधकमपि हित-बोधं श्रीनेमिसूरिराजस्य । यदि गृहणाति न कश्चन, का हानिरतो गुरोरस्य ? ॥ १३१ ॥ अनुज्ञा आशासे बधिरत्वं, धीरोत्तम ! गुरुवरेण्य !येनाऽहम् । खलविहितत्वद्गर्दा-श्रवणाऽन) भवेयं वै ॥ १३२॥ लेशः यद्यपि भवत्यधैर्य न गुणो, गुरुवर ! तथापि युष्माकम् । अद्भुतचरितं श्रोतुं मय्युत्के स गुण इव भाति ॥ १३३॥ Page #15 -------------------------------------------------------------------------- ________________ लेशः -२ कीर्तिर्गता भवन्तं त्यक्त्वा गुरुगुणगणोरु ! गुरुवर्य !। भवतोपार्जितमनसिज-विजयस्य समस्ति फलमेतत् ॥ १३४॥ मुद्रा ॥ १३५ ॥ ॥ १३६ ॥ ॥ १३७ ॥ ॥ १३८ ॥ ॥ १३९ ॥ भङ्क्तुं ददाति न रथं यद्बलतश्चलति चपलमेव रथः । आनन्दयतु श्रीजिन - शासनरथचक्रनेमिरसौ रलावली मिथ्यात्वध्वान्तार्कः प्रथितकविर्दोषचन्द्रमोराहुः । मङ्गलरूपश्च बुधो भव्याब्जाब्जः सजयतु गुरुः तद्गुणः • अष्टाभिः सुविशिष्टैः शिष्टैः शिष्यैरलङ्कतं सुगुरुम् । अष्टदलकमलबुद्धया शिरसि बुधा धारयन्ति मुदा पूर्वरूपम् देहावृतमपि रूपं निजात्मनो बोधदीपकेन भवान् । भिन्न प्रतीतवानिति, नेमिगुरो ! हारि तव सर्वम् पूर्वरूपम्-२ अस्तमितेषु समेषु युगप्रधानोपमेषु पूज्येषु । अपि नेमिसूरिदीपो द्योतितवान् शासनद्यां सः अतद्गुणः जिनशासनानुरागो यद्यपि भरितस्तवाऽस्थिमज्जासु । नश्वरता च कुगन्ध-स्तथापि न प्रापि तेन, चित्रमिदम् अनुगुणः निसर्गतोऽसि नृरत्नं तत्र च गुरुवृद्धिचन्द्रमणिकारैः । मलमपहत्य विनिहितं तेजोऽपूर्वं ततोऽवशिष्टं किम् ? ॥ मीलितम् उज्ज्वलतेजःपुञ्ज-श्लिष्टं भवतां यशोऽशुराशिमिह । कोऽपि विवेक्तुं नाऽलं, गुरुवर ! कः पुण्यपुजोऽयम् ! सामान्यम् श्रीनेमिसरिचरणा-म्भोजरजःक्रान्तपुण्यभमितले । अवकीर्णोऽपि न गम्य- स्तदीयपुण्याणुसंघातः उन्मीलितम् प्रसरत्यपि दशदिक्षु सूर्यकरैः सह भवद्यशःप्रकरः । उष्णाऽनुष्णात्वाभ्या बोधन्ति बुधास्तयोर्भेदम् विशेषकः गुरुदेवनेमिसूरे-रुपदेशदिवाकरे प्रसृमरेऽत्र । सत्कर्माऽसत्कर्मसु विसदृशता लक्षिता लोकैः । ॥१४०॥ ॥१४१॥ ॥१४२ ॥ ॥१४३॥ ॥१४४॥ ॥१४५ ॥ For Private Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ उत्तरम् को विबुधो विबुधानां ?, दुष्कर्माऽऽसेवको भवेत् कीदृग् ? । कोऽस्माकं तीर्थानां चोद्धर्ता भवति ? गुरुरेव ॥१४६ ॥ ॥ १४७ ॥ सूक्ष्मम् घनगर्जनानुकारि –त्वत्प्रवचनघोषणां समाकर्ण्य । उत्सूत्रभाषिभिः किल वेतसयष्टिः प्रदर्शिताऽन्योन्यम् पिहितम् दुर्वादिदर्पमर्दन- निपुणं गुरुवर ! भवन्तमभिवीक्ष्य । वस्त्रैर्दुण्ढकलिङ्गः- स्वकीयवदनानि पिहितानि ॥१४८॥ व्याजोक्तिः "भयविह्वला नहि वयं किन्त्वस्ति त्वरितमद्य कार्यवशात् ।" • इति जल्पन्तो गुरुवर !मत्सरिणस्तव पलायन्ते ॥१४९ ॥ गूढोक्तिः मत्तमतङ्गज ! मत्तो न बिभेष्यन्तःपुरं च भेदयसि । किन्त्वधुना त्वयि रुद्रो वर्तत इह गुरुरिति त्वया ध्येयम् ॥१५० ॥ विवृतोक्तिः वज़ भो मत्तमतङ्गज ! त्यज विपिनं मेऽद्य नेमिशरणस्य इति साकूतं गदितं नेमिगुरोः सेवकेन नृणा ॥ १५१ ॥ युक्तिः शासननिन्दकलोका वीक्ष्य भवन्तं भयात् स्वयं चैव । “वयमभिनन्दामो” गुरु-देवैवं कलकलायन्ते ॥ १५२ ॥ लोकोक्तिः वर्णननिरपेक्षं तव गुणगौरवमस्ति विश्वविख्यातम् । आदर्शदर्शन नह्यपेक्षते हस्तकङ्कणकम् ॥ १५३ ॥ छेकोक्तिः गुरुवर ! शिष्योन्नत्यै त्वकृतपुरुषार्थमत्र को वेत्ति ?। सर्वसहैव वेत्ति हि सहिष्णुतां वस्तुतो नान्यः ॥ १५४ ॥ वकोक्तिः "माऽन्यं स्तूही त्युक्ते स्तवीम्यहं मान्यमेव वक्तीति । जिहवाऽसामान्यगुण ! प्रभो ! भवन्तं मनसिकृत्य ॥१५५ ॥ स्वभावोक्तिः निजमूर्धानं धुन्वन् सोत्तेजितमेव निर्निमेषाक्षः । वाणी शृणोति भवतः संहदयवर्गः सुगुरुराज! ॥ १५६ ॥ ___ भाविकम् अद्यापि दृष्टिपटले- ऽवतरति सिंहानुकारिणी भवताम् । भव्याकृतिर्हि भव्यान् भव्यं ददती प्रभावभृता ॥ १५७ ॥ For private & Personaruse Only Jain Education internatio www.jainenbrary.org Page #17 -------------------------------------------------------------------------- ________________ ॥ १५८ ॥ ॥ १५९ ॥ उदात्तम् जिनशासनसम्राजां सूरीश्वरचक्रचक्रिणां जनुषा । पवित्रिता सेयं मधु-मतीधरित्रीह पुण्यवती अत्युक्तिः नेमिगुरौ मार्तण्डे -ऽखण्डप्रतापे प्रचण्डदीप्तौ च । तच्छिष्याष्टकमिन्दु- प्रमुखाष्टग्रहवलयममलम् निरुक्तिः योगवहनप्रवृत्तिं लुप्तामारब्धवानशक्यं च । मुनिसम्मेलनमकरोस्त्वमेव, सत्यं त्वमसि सम्राट प्रतिषेधः त्वां कृत्वाऽनङ्गं पुन-रङ्गीकृतवान् यकः स न हरोऽयम् । त्वच्चित्त-वचन-वपुषां त्रेधा निर्माशकोऽस्ति नेमिरयम् । विधिः धर्मद्रोहिगुरुभ्यो रक्षेदं शासनं दयालो हे ! । त्वं शासनसम्राडस्याऽऽक्रान्तो द्रोहिभिधर्मः ॥१६०॥ ॥१६१ ॥ ॥ १६२ ॥ ॥ १६३ ॥ कुगुस्लुकविलोचन -निमीलनायैव तिग्मदीप्तिरयम । नाम्ना नेमिरुदितवान् धार्मिकजनतामनोनभसि हेतुः २ विस्फरणं मम चित्ते यदिदमलकारनेमिरचनायाः ॥ तन्नेमिसूरिभगवत्-कृपासुधावर्षणं नूनम् ॥ १६४॥ शासनसमाडिति पद-विभूषितो नेमिसूरिगुरुराजः। तपगच्छाधीशोऽभूत् सर्वेर्षा सूरिणां मान्यः । ॥ १६५ ॥ तत्पट्टोदयशिखरि-ण्युदितः श्रीउदयसूरिरिन्दुनिभः। यस्याऽङ्कऽस्तकलङ्के कृपाङ्कितो लालितोऽस्म्यहकम् ॥१६६ ॥ तत्पट्टे समदर्शी सधैक्याथ सदैव कृतयत्नः । श्रीमन्नन्दनसूरिः सङ्घनाऽऽदेयचनोऽभूत् ॥ १६७॥ पूज्यतमा मम परमो -पकारमध्यापनादिनाऽकार्युः । ते, तेषां निर्देशानुसारमेषा कृती रचिता इत्थमलङ्कारशते-नाऽऽभिष्टुवता मया गुरूं नेमिम् । सृष्टा सुपुण्यसृष्टि-गुरोः कृपावृष्टये भवतात् ॥ १६९॥ अप्पय्यदीक्षितकृताः कुवलयानन्दकारिका मयका ।। अनुसृत्याऽयं विहितो विधु-वेद-वियत्-करे शरदि रतिदः ॥ १७० ॥ ॥ १६८॥ Page #18 -------------------------------------------------------------------------- ________________ Page #19 -------------------------------------------------------------------------- ________________ Page #20 -------------------------------------------------------------------------- ________________ Page #21 -------------------------------------------------------------------------- ________________ ૨ ૮૬૪ Page #22 -------------------------------------------------------------------------- ________________ Page #23 -------------------------------------------------------------------------- ________________ Page #24 -------------------------------------------------------------------------- ________________ Page #25 -------------------------------------------------------------------------- ________________ Page #26 -------------------------------------------------------------------------- ________________ Page #27 -------------------------------------------------------------------------- ________________ Page #28 -------------------------------------------------------------------------- ________________ ॥श्रीमद्-विजयनेमिसूरीश्वरजी।। www.jainelibrary.com Page #29 -------------------------------------------------------------------------- ________________ OWN Page #30 -------------------------------------------------------------------------- ________________ Www.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Page #32 -------------------------------------------------------------------------- ________________ कैलासस माचार्य कोबा (गांधीनगर) पि.३८२००९ पीरन चना ना www.iainelibrary.oro Page #33 -------------------------------------------------------------------------- ________________ Page #34 -------------------------------------------------------------------------- ________________ Page #35 -------------------------------------------------------------------------- ________________ Page #36 -------------------------------------------------------------------------- ________________ Page #37 -------------------------------------------------------------------------- ________________ Page #38 -------------------------------------------------------------------------- ________________ Page #39 -------------------------------------------------------------------------- ________________ Page #40 -------------------------------------------------------------------------- ________________ Page #41 -------------------------------------------------------------------------- ________________ Page #42 -------------------------------------------------------------------------- ________________ Page #43 -------------------------------------------------------------------------- ________________ Page #44 -------------------------------------------------------------------------- ________________ Page #45 -------------------------------------------------------------------------- ________________ Page #46 -------------------------------------------------------------------------- ________________ Page #47 -------------------------------------------------------------------------- ________________ Page #48 -------------------------------------------------------------------------- ________________ ॥ श्रीमद्-विजयनेमिसूरीश्वरजी ॥ Page #49 -------------------------------------------------------------------------- ________________ Page #50 -------------------------------------------------------------------------- ________________ Page #51 -------------------------------------------------------------------------- ________________ Page #52 -------------------------------------------------------------------------- ________________ Page #53 -------------------------------------------------------------------------- ________________ Page #54 -------------------------------------------------------------------------- ________________ Page #55 -------------------------------------------------------------------------- ________________ Page #56 -------------------------------------------------------------------------- ________________ 136301 कलास आचार्य विकि कोबा (गांधीनगर) पि.३८२००९ हाधान्य नआरा राधना Wwwijainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ Page #58 -------------------------------------------------------------------------- ________________ Page #59 -------------------------------------------------------------------------- ________________ Page #60 -------------------------------------------------------------------------- ________________ ଗାଁmbhaba www.jamelibrary.org Page #61 -------------------------------------------------------------------------- ________________ Page #62 -------------------------------------------------------------------------- ________________ Page #63 -------------------------------------------------------------------------- ________________ તમાં તમ શ્રી ગનમેનુયે - શામત સખા શ્રી વિનામ ગુગ્રેજી મહારાજ ના - પ્રાખવા મીરાપાદુકા Page #64 -------------------------------------------------------------------------- ________________ ॐ नमः सिद्धम् किं ध्यानेन भवत्वशेष विषयत्यागैस्तपोनिः कृतम् पूर्ण नावनयाऽलमिंश्यिदमैः पर्याप्तमाप्तागमैः ॥ किं त्वेकं नवनाशनं कुरु गुरुप्रीत्या गुरोः शासनम् सर्वे येन विना विनाथबलवत् स्वार्थाय नालं गुणाः ॥ વનગરે મહાનુભ સ્વરિત શ્રી પ્રથમ ચરમજિનપ્રણમ્ય શ્રી સ્થાને અસયમના ટાળનાર, રાગ દ્વેષના પક, રત્ન ત્રયીના ધારક, કષાયના જીપક, મહાત્રતના પાલણહાર ઇત્યાદ્ધિ મુનિરાજના અનેક ગુણા વડે અલંકૃત મુનિરાજ મહારાજ શ્રી નવિનત દ વિગેરેની સપરિવાર શેવામાં શ્રી ભાવનગરથી લી. ચરણ કિંકર શેડ ડેાસાભાઈ અભેચ વિગેરે સ ંધ સમસ્તની જંદણા ૧૦૦૮ વાર અવધારશેજી. વિશેષ દેવગુરૂની કૃપાથી અત્રે સુખશાંતિ વર્તે છે. આપની સુખસાતાના સમાચાર લખાવશે. અપરચ આધુનિક સમયેાચિત શાસનન્નતિ કારક શુભ પ્રવૃત્તિમાં વૃદ્ધિને અર્થે અનેક ગુણ ગણુ સંયુકત પન્યાસજી શ્રી નૈઋવિજયજી.ગુણિને શાસ્ત્રાજ્ઞાનુસાર વિધિવિધાન સાથે આચાર્ય પદ આરાણની ક્રિયા અનેક ગુણગણાલંકૃત પરમ ધૃજ્ય પન્યાસજી મહારાજ શ્રી ગભીરવિજયજી ગણિજીના હાથથી કરાવવાનું મુકરર કરવામાં આવ્યુ છે. તે મઢાદયકારી પ્રસગનુ શુભ મુહૂર્ત્ત જેષ્ટ શુદ્ધિ પ ગુરૂવારે ચડતે હરે નિત કરેલુ છે. મહાત્સવ કરીને તેમજ દરેક સદરહુ શુભ પ્રસગને અંગે અત્રેના મુખ્ય જિનમંદિરમાં મેરૂ પર્વતની ચાર વન અને ચૂળિકા સહિત ૧૭ જિનમંદિરવાળી રચના કરવામાં આવી છે. તે શાશ્વત તીર્થની પ્રતિકૃતિ સમક્ષ અધ્યાન્તિ ચૈત્યમાં આંગી ાશની તથા વાછત્રદિની યોજના કરીને યથાશકિત જિનકિત કરવામાં આવશે. મહેત્સત્રની શરૂઆત જેષ્ટ • શુદ્ધિ ૩ મંગળવારથી કરવામાં આવશે. આ અત્યુત્તમ શુભ પ્રસંગ ઉપર આપ સાહેબ અત્રે પધારવા કૃપા કરશે. આપના પધારવાથી અમારા પ્રશસ્તાન દમાં વૃદ્ધિ થશે. એજ વિનતિ. સંવત ૧૯૬૪ના વૈશાખ વિદ ૧૧ મંગળવાર. Jain Edison એ શ્રી વિદ્યા વિજય પ્રીંગ પ્રેસ-ભાવનગર. Beelibrary.org/ Page #65 -------------------------------------------------------------------------- ________________ Page #66 -------------------------------------------------------------------------- ________________ શાસનસમ્રાટ દીક્ષાશતાબ્દી વર્ષ વિસં. ૧૯૪પ-૨૦૪૫ જેઠ શુદિ 7 FONPrivate Personal use om www.janelibrary.org