SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ निदर्शना - ४ उपशमयति सन्तापं शरणगतानामसौ गुरुर्नेमिः । महदाश्रयः सदैव हि योगक्षेमद इति प्रथयन् ॥ ५० ॥ व्यतिरेकः जयतु स नेमिगुरुवरो बोधनटीप्रकटनोऽप्रकम्प्रश्च । प्रतिभोत्तुङ्गो नग इव किन्तु लसच्चेतनाकलितः ॥५१॥ सहोक्तिः आवृण्वन्ति समग्रं भारतवर्ष यदीयसुकृतानि । निर्मलयशसा साकं स नेमिसूरिः श्रियेऽस्माकम् ॥५२॥ विनोक्तिः नेमिगुरूणां गुरुगुण - वर्णनमाकर्णितं न येनेह । तस्य कृतार्थमपि जनु - न चमत्कुरुते मदीयमनः ॥ ५३॥ विनोक्तिः- २ यद्यपि गुरुवर ! भवतां स्वान्तं गुणकान्तमथ प्रकृतिशान्तम् । तदपि विना सङ्क्लेशं तद् राजति कान्तशान्ततरम् ॥ ५४॥ समासोक्तिः “अरुणोऽयं परिकुप्यति तमसे, प्रतिबोधयति च कमलानि ।” कल्पन्ते नेमिगुरोः शिष्या इति वीक्ष्य गुरुचरितम् ॥५५॥ परिकरः तीर्थानां जीर्णानां हृदयानामपि च पापशीर्णानाम् । उद्धारकः स नेमिः स्मरतापादुद्धरत्वथ माम् ॥५६॥ परिकराङ्कुरः अनुशास्ति जैनशासन - साम्राज्यं चाधिपत्यमपि कुरुते । श्रीसङ्घस्याऽप्रतिम शासनसम्राट् सदा जयतात् ॥ ५७ ॥ श्लेषः हरति मनोभवभेदी सभाजनं सद्गुणव्रजस्याऽहंन् । सहितश्चित्तविशुद्धया बोधिं विदधातु गुरुनेमिः ॥५८॥ श्लेषः- २ यः सन्मानसहंसो हंसोऽपि च भव्यपुष्करे भवति । स शिवोभयदो भवतु सदायतिर्नेमिसूरीशः ॥ ५९ ॥ अप्रस्तुतप्रशंसा गुरुदेवाऽऽदाय तव प्रदीप्ततेजःकणानिमे किरणाः । उष्णा अर्यम्णः खलु सजाता एवमाभाति ॥६०॥ ___ अप्रस्तुतप्रशंसा - २ तेजोऽस्य चेदसह्यं पष्णो दर्पण किं तदा, ऽयं चेत् । अभिलषितार्थप्रदस्तद् वृक्षत्वं भवतु कल्पतरोः । ॥६१ ॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.001474
Book TitleNamu Guru Nemisuri Sansarma
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherVijaynemisuri Gyanshala Ahmedabad
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Gujarati & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy