SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ प्रस्तुताङ्कुरः रे रे चकोर - चेतः, पूर्णेन्दुश्चेल्लसत्यसौ सुगुरुः । हन्ताऽष्टमन्दावगुरौ गाढासक्तिस्तवेयं का ? प्रस्तुताङ्कुरः- २ भो भाविका! भवद्भि मिथ्यात्वाक्रान्तचेतसो गुरवः । सेव्यन्ते कथमिव ? यदि नेमिरसौ विद्यते सुगुरुः पर्यायोक्तम् जीर्णं प्रत्नं तीर्थं कदम्बगिरिनामकं समुद्धृतवान् । यस्तं प्रणौमि भक्तया, शरणीकृततच्चरणयुगलः व्याजस्तुतिः तेजस्विताऽत्रभवतां केयं गुरुराज ! यद् विरोधिजनाः । दृश्यन्ते समदृष्ट्या क्रियते तेषु च दयावृष्टिः व्याजस्तुतिः - २ गायसि गुणांश्च प्रथयसि सच्चरितं, रटसि नाम नेमिगुरोः । जिवे ! कुत इदमाप्तं भाग्यं ? वद मामदृष्टगुरुम् व्याजनिन्दा नेमिगुरो ! क्रूरोऽयं कर्मनृपो यत्त्वदीयपत्कजयोः । सेवां नैवाऽदान्मां त्वत्स्वर्गाप्तेरनु धृताङ्गम् आक्षेपः बन्धो ! सिन्धोस्तीरे - ऽन्वेष्टुं रत्नानि चल वयं यामः । अथवाऽलं तेन यतो गुणरत्नाब्धिः समस्त्ययं नेमिः आक्षेपः- २ नेमिर्नहि धर्मगुरुः किन्त्वास्ते ब्रह्मतेजसः प्रतिमा । ननु नैष प्रतिमाऽपि तु सत्त्वगुणस्तत्त्वतो जीवन् आक्षेपः- ३ कुरु कुरु दुर्जन ! गह गुणार्हगुरुनेमिसूरिणो नितराम् । सन्तस्त्वत्तो बिभ्यतु त्यजन्तु मैत्रीं च तव कामम् विरोधाभासः गुरुरप्यगुरुः क्लेशैः समोऽपि यो राजतेऽसमो बुद्धया । अममोऽपि च यः, स मम, प्रगुरुप्रगुरुप्रगुरुरवतात् विभावना सैन्यं न मन्त्रिणो नहि नहि कोशो नापि शस्त्रमस्त्रं वा । तदपि पराजितमदनः सूरिषु राजा जयत्येषः २ विभावना नाशितवाननतिरुषा रोषादीन् षड् रिपून् शमीशो यः । मान्यसामान्यगुणो धन्योऽनन्यः स मे गुरुर्जयतात् Jain Education International - For Private & Personal Use Only ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६५ ॥ ।। ६६ ॥ ॥ ६७ ॥ ॥ ६८ ॥ ॥ ६९ ॥ ।। ७० ।।। ॥ ७१ ॥ ।। ७२ ।। ॥ ७३ ॥ www.jainelibrary.org
SR No.001474
Book TitleNamu Guru Nemisuri Sansarma
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherVijaynemisuri Gyanshala Ahmedabad
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Gujarati & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy