Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad

View full book text
Previous | Next

Page 11
________________ ॥८६॥ ॥ ८७॥ ॥८८॥ ॥९० ॥ ॥९१ ॥ समम् हृदयमतीव सुकोमल - मथ तत्र कृपाऽपि राजते परमा । अनुरूप एव गुरुवर ! संयोगस्त्वयि हृदय- दययोः समम् - २ गुरुवर ! सागरतीरे मधुपुर्यामाप्तजन्मनो भवतः । युक्ता गभीरिमा किल धिक्कृततुच्छत्वमहिमेयम् समम् - ३ भवभीतिविशरणार्थ - मितस्ततो भ्राम्यता मयाऽकस्मात् । प्राप्तं विशिष्टशरणं नेमिगुरूणां भवाऽपहरम् विचित्रम् श्रीजिनवचने भगवति, करोति रतिमाप्तुमेव भवविरतिम् । योऽसौ नेमियतिपति-दुर्गतिप्रतिबन्धको जयति अधिकम् गुरुवर ! भवतो हृदये-ऽनुपमेयाऽमेयसद्गुणा मान्ति । किन्तु न मान्तीव कृपा, व्याप्ता विश्वेऽत्र विश्वस्मिन् - अधिकम्-२ परकीयगुणाणुरपि युष्मच्चित्ते शिलोच्चयीभवति । श्रीनेमिसूरिगुरुवर! चरितं तव चारुताभरितम् अल्पम् दोषकणोऽपि परेषां, सूक्ष्मायामपि न युष्मदीयायाम् । दृष्टावलं प्रवेष्टुं, गुरुवर! महतो महीयोऽदः अन्योऽन्यम् नेमिगुरोः शिष्यचयो, गुरुभक्त्या प्रीणयति यथा स्वगुरुम् । वात्सल्यवर्षणेना-ऽऽनन्दयति तथैव सोऽपि शिष्यगणम् विशेषः त्वदभावेऽपि त्वत्कृत-सुकृतानां तीर्थरक्षणादीनाम् । प्रह्वीकरोति गाथा गुरुवर ! सहृदयहृदयानि भव्येयम् विशेषः-२ तीर्थे तीर्थे गरुवर ! परोक्षरूपेण श्यते हि भवान् । रक्षोद्धारविकासा- दिककारी भूरितीर्थानाम् विशेषः-३ नेमिगुरूणां चरणा-वुपासमानेन शिष्यवृन्देन । ईप्सितप्राप्त्या क्लुप्तं कल्पदुरुपासितोऽस्माभिः व्याघातः ये विषया आनन्दं ददतेऽखिललोकमानसाय सदा । तानेव दुःखदास्ते कृत्वेति त्यक्तवान् भवांश्चित्रम् ॥ ९२ ॥ ॥९३ ॥ ॥९४॥ ॥ ९५ ॥ ॥९६ ॥ ॥९७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66