Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad
View full book text
________________
विभावना - ३ पल्लवयति पाषाणान् यद्वागमृतं तिरस्कृतवदनृतम् । मङ्गलवचनोऽकिञ्चन - मुख्यः सौख्याय स गुरुः स्तात् ॥७४ ॥
विभावना -४ गुरुवचनश्रवणादनु - भूयत इह शर्करारसो मधुरः । श्रीनेमिवदनचन्द्रात् तिग्मा दीप्तिः समुद्भवति, चित्रम् ! ॥७५ ॥
विभावना - ५ युष्मत्कृतेन तीर्थों - द्धरणेनाऽकारि युष्मदुद्धारः। चित्रं महतामर्थस्तैरेव कृतात् सरति कार्यात् ।
॥ ७६॥ विभावना - ६ दृष्टा नदी गिरिभवा क्वचनापि गिरिनदीभवो नाऽऽप्तः । किन्त्वद्य नेमिगुरुवार - नद्याः पुण्याविरुद्गतश्चित्रम् ॥७७ ॥
विशेषोक्तिः सत्यपि बाहुल्ये खलु प्रत्यूहानां विरोधिनां चैव । नाऽऽपि विफलता स्वीये सत्कर्मणि येन, गुरूरसौ जयतात् ॥ ७८ ॥
असम्भवः तीर्थसमहं प्रत्नं पुनरुद्धर्ता स्वकीयप्राणपणैः । जङ्गमतीर्थसमोऽभूद्, गुरुरिति केनैष्यतीह विश्वास्यम् ? ॥ ७९ ॥
असङ्गतिः त्वद्वाक्सुधाभिषेको जातो मच्छोत्रयोः प्रभो ! किन्तु । दुर्गुणविषप्रभावा – न्मुक्तं मच्चेतसा तु, चित्रमिदम् !
असङ्गतिः- २ स्वीयमनोभुवि कर्तुं, ज्ञानालोकं त्वया प्रवृत्तेन । विहितः स एव शिष्य - स्वान्तेष्वद्भुतमदो गुरो ! भवतः ॥८१ ॥
असङ्गतिः- ३ गुरुवर ! भवदीयं खलु निखिलं लोकोत्तरं कथं वर्ण्यम् ? । . तीर्थोन्नतिप्रवृत्तः कृतवान् स्वात्मोन्नतिं हि भवान्
विषमम् शासनसम्राजां क्वा- ऽतुलनिर्मलबुद्धिबलविलासः सः ? । क्वाऽप्युत्सूत्रनिरूपण - दक्षा विद्वेषिणो वराकास्ते ? ॥८३॥
विषमम् - २ गुरुवर ! तवाऽनुशिष्टिः कठिन-कठोराऽपि शिष्यहृदयेषु । सद्भावसौकुमार्यं जनयत्येतत् परं विरलम्
॥८४॥ विषमम् - ३ "मुनिरेष, नैव हिंस्यात् कमपी ति विभाव्य दुर्गुणौघस्त्वाम् । उत्कः श्रयितुं गुरुवर !, त्वया तु निर्मूलनं कृतं तस्य ॥८५॥
॥८०॥
॥ ८२॥
Jain Education internat
For private & Personal use only
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66