Book Title: Namu Guru Nemisuri Sansarma Author(s): Shilchandrasuri Publisher: Vijaynemisuri Gyanshala Ahmedabad View full book textPage 4
________________ ॥ २ ॥ अलङ्कारनेमिः रचयिताः पं. शीलचन्द्रविजय गणी निर्दोषं गुणकलितं, सद्ब्रह्मालङ्कृतं सुकाव्यमिव । यज्जीवन, प्रकुर्वे, तन्नेमिगुरोः स्तवनरचनाम् श्रीनन्दनसरीश्वर – निर्देशाच्छीलचन्द्रनामाऽहम् । विदधे सद्गुरुभूक्तया, ग्रन्थमलङ्कारनेम्यभिधम् उपमाःसद्बोधदीप्तिभासुर - ईष्टे योऽज्ञानतिमिरमपहर्तुम् । सूर इव नेमिसूरि - विहरत्वनिशं स शासनाकाशे ॥३॥ अनन्वयः ऐदंयुगीनगच्छा - धिपेषु दुर्द्धर्षतेजसा भाति । श्रीनेमिर्ने मिरिव प्रतापपुजः प्रधानतमः ॥ ॥ ४ ॥ उपमेयोपमा यस्य प्रौढप्रताप - श्चक़ास्ति मार्तण्डताप इव चण्डः । तापोऽर्कस्य च स इवा - ऽसौ जयतान्नेमिसूरिवरः । ॥५॥ प्रतीपम् - १ त्वत्प्रवचननिर्घोषै - स्तुल्यं गर्जन्त्यरण्यके हरयः । त्वामुपमिन्वन्ति मुधा, विबुधा हरिणा दयालुहृदय ! गुरो! ॥६॥ प्रतीपम् - २ रे जलद ! माऽवलेपं, करु निजगर्जारवस्य प्रखरत्वे । यत् तदुपममिह नेमिः, सूरिगर्जति हि देशनासमये प्रतीपम् - ३ चेन्नेमिसूरिवदनं, दृष्टं तद्वाक् श्रुता च भवविपिने । हरिदर्शन - तद्गर्जा - कर्णनमस्त्यर्थहीनमिह ॥८॥ रूपकम् - १ साक्षादसौ विभाति, जगद्गुरुहीरविजयसूरिवरः । भूपप्रतिबोद्धाऽभय - दाता तपगच्छनेता च ॥१०॥ रूपकम् - २ अभिषेकं दिग्विजयं रिपुभङ्गं सङ्गरं विनैवाऽसौ । जिनशासनसाम्राज्ये "सम्राड" भवद् गुरुर्नेमिः रूपकम् - ३ विबुधानामिव मनुजा – नामपि पूज्यः शतक्रतुलः । नन्दतु नेमिगुरुरयं, लोकं श्रुतचक्षुषाऽऽकलयन् ॥१२॥ रूपकम् -४ युगप्रधाना यदि नो, दृष्टा विषमारके ननु ततः किम् ?। ।.. जङ्गमयुगप्रधानो, नेमिगुरुर्यत इहैवाऽऽस्ते ॥१३॥ ॥ ७ ॥ - - ॥ ११ ॥ Jain Education international -For-Privaterarriersonal use Orily www.jamelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 66