Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad

View full book text
Previous | Next

Page 6
________________ ॥ २८ ॥ कैतवापनुतिः जिनवचनोपवनान्त - विकसितसुरभितसुचरितपुष्पाणि । नेमिगुरोर्वचनमिषाद् वर्षन्ति श्रोतृकर्णेषु ॥ २६ ॥ उत्प्रेक्षा सद्गुणसमुद्रमथनं कृत्वाऽप्य कृपाऽमृतं प्रपीय च तत् । नेमिरभूद् भूमितले शङ्केऽभिनवः सुधांशुरसौ ॥ २७॥ उत्प्रेक्षा - २ श्रीनेमेरकलङ्क प्रकाशधर्मित्वमनुपमं वीक्ष्य । तदवाप्तुमिव तपस्यति शशाङ्क आकाशमण्डपेऽद्यापि रूपकातिशयोक्तिः यत्स्पर्शन-दर्शनतः स्मरणादपि पापकर्दमः शुष्येत् । शुद्धयेच्चित्तं च नृणां, तज्जङ्गमतीर्थमभिवन्दे ॥ २९ ॥ सापह्नवातिशयोक्तिः गुरुदेव ! तावकीने पीनेऽदीने ह्यगाधहृद्देशे । प्रतिष्ठितं गाम्भीर्य, मूढास्तु तदर्णवेऽनुमिन्वन्ति ॥ ३० ॥ भेदकातिशयोक्तिः लोकोत्तरः प्रतापो – ऽनुपमेया ब्रह्मचर्यनिष्ठा च । भवभीरुताऽप्यनन्या, सर्वमसामान्यमस्य गुरोः ॥३१॥ ___ सम्बन्धातिशयोक्तिः यद्ब्रह्मचर्यदीप्त्या विश्वं देदीप्यते ज्वलज्ज्योतिः । तं प्रणिपतामि नेमिं मुनिमण्डलमौलिमुकुटसमम् ॥३२॥ असम्बन्धातिशयोक्तिः नेमिगरो ! तव कीर्ति – दिशि दिशि पर्यटति तेन तद्गानम् । नैव करोमि, न वयं स्वैरत्वं यत् कदाचिदपि ॥ ३३ ॥ अक्रमातिशयोक्तिः वर्धन्त एव सार्धं सुकृतानि यशांसि नेमिसूरीणाम् । विफलीकृतकुकृतानि झङ्कृतजनचेतनानि तथा ॥ ३४॥ चपलातिशयोक्तिः विपदां हरणं प्रहरण - मपि दोषाणां स्वपुण्यशोषाणाम् । नेमिगुरूणां शरणं स्वीकर्ता तत्क्षणं विगतपापः ॥ ३५ ॥ अत्यन्तातिशयोक्तिः प्रथमं गच्छति कीर्ति - स्ततः प्रतापस्ततः स्वयं सूरिः। क्षेत्रे विहारविषये, क्रमः समस्तीह सूरीणाम् ॥३६॥ ___ तुल्ययोगिता वचनानि नेमिमुखतः पापध्वान्तान्यथो जनस्वान्तात् । निर्गच्छन्ति हि महता - मनुभावो वर्णनातीतः ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 66