Book Title: Namu Guru Nemisuri Sansarma
Author(s): Shilchandrasuri
Publisher: Vijaynemisuri Gyanshala Ahmedabad

View full book text
Previous | Next

Page 7
________________ ॥३८॥ ॥ ३९॥ ॥ ४० ॥ ॥४१॥ ॥४२॥ ॥४३॥ तुल्ययोगिता -२ श्रीनेमिसूरियशसो दृष्ट्वोज्ज्वलिमानमद्य मे हृदये । कर्पूरफेनपूरा – ऽकूपारजलादि भाति धूसरितम् तुल्ययोगिता - ३ रागी वा द्वेषी वा, स्यात् कोऽपि तथापि सोऽस्य नोस्वीयः । वन्दक-निन्दकयोरपि, समः स मम गुरुवरो नेमिः . तुल्ययोगिता - ४ कश्मीरजं मलयजं कस्तूरीत्यादि सकलमपि सुखदम् । श्रीनेमिसूरिराजा-मनुपभगुणकदम्बकं चापि । दीपकम् । शारदचन्द्रज्योत्स्ना प्रसरत्यम्बरतलेऽर्पयति शैत्यम् । श्रीनेमिसूरिराजां क्षितिमण्डलमण्डपे तथा स्फातिः आवृत्तिदीपकम् हरति मनांसि जनाना – मुत्कृष्टा चरणपद्धतिर्यस्य । हरति च यो मारजये, जयेत्स सूरीश्वरो जगत्पूज्यः आवृत्तिदीपकम् - २ शान्तिं यान्ति मुनिजना व्रजन्ति निश्चिन्ततां सकलसङ्घाः । श्रीनेमिसूरिराजे नेतृत्वं कुर्वतीह सङ्घस्य आवृत्तिदीपकम् - ३ रज्जयतु नेमिसूरे – गुणगानं मानसं गुणिजनानाम् । रञ्जयतु च तच्चरितं निरतीचारं दयासारम् प्रतिवस्तूपमा अष्टाङ्गो योगो यदि प्रसाध्यते तर्हि यच्छति स सिद्धिम् । शिष्याष्टककलितोऽयं प्रसेव्यते यदि, ददाति धर्म तत् दृष्टान्तः जिनशासनाधिपत्यं कर्तुं श्रीनेमिसूरिरेवाऽलम् । सकलकुवलयोल्लासं विधुरेव विधातुमिह शक्तः निदर्शना यन्नेमिसूरिभगव - च्छासनपरिपालनं विनेयकृतम् । तद् बालस्याऽऽश्रयणं स्वमातुरुत्सङ्गकेऽभयदम् निदर्शना - २ गुरुदेव ! अमत्कं भव्यं मुखमण्डलं बिभर्तीह । वनराजवदनशोभां विलक्षणं ही सतां सकलम् निदर्शना - ३ यः स्पर्धेत बलवता स पतेदिति बोधयन्त एतेऽद्य । सङ्घद्वेषिमनुष्याः पतन्ति गुरुनेमिपादयुगे ॥४४॥ ॥४५॥ ॥४६ ॥ ॥४७॥ ॥४८॥ ॥ ४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66