Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 8
________________ मूलगुणाधिकारः। गर्वशब्दो निरवशेषार्थवाचकः परिगृहीतो बहनुग्रहकारित्वात्तेन प्रमत्तसंयताधयोगिपर्यन्ता भूतपूर्वगत्या सिद्धाश्च परिगृह्यन्ते, सम्यक यताः पापक्रियाभ्यो निवृत्ताः सर्वे च ते संयताश्च सर्वसंयतास्तान् सर्वसंयतान् प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणसू. क्ष्मसांपरायोपशान्तकषायक्षीणकषायसयोगकेवल्ययोगकेवलिसंयतान् सप्ताद्यष्टपर्यन्तषण्णवमध्यसंख्यया समेतान् सिद्धांश्चानन्तान्। सिरसा-शिरसा मस्तकेन मूर्ना । इहपरलोकहिदत्थेइहशब्दः प्रत्यक्षवचनः, परशब्द उपरतेन्द्रियजन्मवचनः, लोकशब्दः सुरेश्वरादिवचनः । इह च परश्चेहपरौ तौ च तौ लोकौ च इहपरलोको ताभ्यां तयोर्वा हितं सुखैश्वर्यपूजासत्कारचित्तनिवृतिफलादिकं तदेवार्थः प्रयोजनं फलं येषां ते इहपरलोकहितार्थास्तान् इहलोकपरलोकसुखैश्वर्यादिनिमित्तान् । इहलोके पूजां सर्वजनमान्यतां गुरुतां सर्वजनमैत्रीभावादिकं च लभते मूलगुणानाचरन्, परलोके च सुरैश्चर्य तीर्थकरत्वं चक्रवर्तिबलदेवादिकत्वं सर्वजनकान्ततादिकं च मूलगुणानाचरन लभत इति । मूलगुणे-मूलगुणान् सर्वोत्तरगुणाधारतां गतानाचरणविशेषान । कित्तइस्सामिकीर्तयिष्यामि व्याख्यास्यामि । अत्र संयतशब्दस्य चत्वारोऽर्था नाम स्थापना द्रव्यं भाव इति । तत्र जातिद्रव्यगुणक्रियानिरपेक्षं संज्ञाकर्म नामसंयतः । संयतस्य गुणान बुद्धयाध्यारोप्याकृतिवति अनाकृतिवति च वस्तुनि स एवायमिति स्थापिता मूर्तिः स्थापनासंयतः। संयतस्वरूपप्रकाशनप

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 522