Book Title: Mulachar Satik Part 01 Author(s): Pannalal Soni, Gajadharlal Shastri Publisher: Manikchandra Digambar Jain Granthmala Samiti View full book textPage 7
________________ मूलाचार गुणपर्यायखचितषड्व्य नवपदार्थजिनवरोपदिष्टं, द्वादशविधतपोनुष्ठानोत्पन्नानेकप्रकारद्धिसमन्वितगणधरदेवरचितं, मूलगु णोत्तरगुणम्वरूपविकल्पोपायसाधनसहायफलनिरूपणप्रवणमाचाराङ्गमाचार्यपारम्पर्यप्रवर्तमानमल्पबलमेघायुःशिष्यनिमित्त द्वादशाधिकारैरुपसंहर्तुकामः स्वस्य श्रोतृणां च प्रारब्धकार्यप्रत्यूहनिराकारणक्षमं शुभपरिणामं विदधच्छ्रीवट्टकेरा'चार्यः प्रथमतरं तावन्मूलगुणाधिकारप्रतिपादनार्थ मंगलपूर्विकां प्रतिज्ञां विधत्ते मूलगुणेस्वित्यादि। मूलगुणेसु विसुद्धे वंदित्ता सव्वसंजदे सिरसा। इहपरलोगहिदत्यं मूलगुणे कित्तइस्सामि ॥१॥ मूलगुणेषु विशुद्धान् वंदित्वा सर्वसंयतान् शिरसा । इहपरलोकहितार्थान् मूलगुणान् कीर्तयिष्यामि॥१॥ ___ मंगलनिमित्तहेतुपरिमाणनामकर्तृन् धात्वादिभिः प्रयोजनाभिधेयसम्बन्यांश्च व्याख्याय पश्चादर्थः कथ्यते । मूलगुणेसु मूलानि च तानि गुणाश्च ते मूलगुणाः । मूलशब्दोऽनेकार्य 'यद्यपि वर्तते तथापि प्रधानार्थे वर्तमानः परिगृह्यते । तथा गुणशब्दोऽप्यनेकार्थे यद्यपि वर्तते तथाप्याचरणविशेषे वर्तमानः, परिगृह्यते । मूलगुणाः प्रधानानुष्ठानानि उत्तरगुणाधारभूतानि तेषु मूलगुणेषु विषयभूतेषु कारणभूतेषु वा सत्सु ये । विसुद्धविशुद्धाः निर्मला: संजातास्तान मूलगुणेषु विशुद्धान् । दत्ता वन्दित्वा मनोवाकायक्रियाभिः प्रणम्य, सव्वसंजदे-अयंPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 522