Book Title: Mulachar Satik Part 01 Author(s): Pannalal Soni, Gajadharlal Shastri Publisher: Manikchandra Digambar Jain Granthmala Samiti View full book textPage 9
________________ ३ : मूलाचारे... रिज्ञानपरिणतिसामर्याध्यासितोऽनुपयुक्त आत्मा आगमद्रव्यसंयतः । नोमागमद्रव्यं ज्ञायकशरीरं संयतपाभृतज्ञस्य शरीरं भूतं भवन् भावि वा । भविष्यत्संयतत्वपर्यायो जीवो भावि. संयतः । तद्व्यतिरिक्तमसम्भवि कर्म नोकर्म, तयोः संयतत्वस्य कारणत्वाभावात् । संयतगुणव्यावर्णनपरपाभृतज्ञ उपयुक्तः सम्यगाचरणसमन्वित भागमभावसंयतस्तेनेह प्रयोजनं, कुतः मूलगुणेषु विशुद्धानिति विशेषणादिति । मूलगुणादिस्वरूपावगपनं प्रयोजनम् । ननु पुरुषार्थो हि प्रयोजनं न च मूलगुणादिस्वरूपावगपनं, पुरुषार्थस्य धर्मार्थकाममोक्षरूपस्वात्, यद्येवं सुष्ठु मूलगुणस्वरूपावगमनं प्रयोजनं यतस्तेनैव ते धर्मादयो लभ्यन्ते इति । मूलगुणैः शुद्धस्वरूपं साध्यं. साधनमिद मूलगुणशास्त्रं, साध्यसाधनरूपसम्बन्धोऽपि शास्त्र प्रयोजनयोरतएव वाक्याल्लभते, अभिधेयभूता मूलगुणाः तस्माद् ग्राह्यमिदं शास्त्रं प्रयोजनादित्रयसमन्धितत्वादिति । सर्वसंयतान् शिरसाभिवन्ध मूलगुणान् इहपरलोकहितार्थान् कीर्तयिष्यामीति पदघटना । अथवा मूलगुणसंयातानामयं नमस्कारो मुलगुणान सुविशुद्धान संयतांश्च वन्दित्वा मूलगुखान् कीर्तयिष्यामि, चशब्दोऽनुक्तोऽपि दृष्टाः । यथा पृथिव्यप्तेजोवायुराकाशमित्यत्र । मूलगुणकथनप्रतिज्ञी निर्वहन्नाचार्यः संग्रहस्त्रगाथादयमाहपंचय महव्वयाई समिदीओ पंच जिणवरुहिट्ठा।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 522