Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मुलाचार द्रव्येन्द्रियं भावेन्द्रियं च,चतुरिन्द्रियाद्यावरणक्षयोपशमजनितशक्तिर्भावन्द्रियं तदुपकरणं द्रव्येद्रियं यतो लब्ध्युपयोगौ भावेन्द्रियं, निवृत्युपकरणे द्रव्येद्रियं चेति रोधा अप्रवृत्तयः इन्द्रियाणां श्रोत्रादीनां रोधा इंद्रियरोधाः सम्यध्यानप्रवेशप्रवृत्तयः कियन्तस्ते पंचैव । छप्पि य-षडपिच षडेव न सप्त नापि पंच । अावासया-अवश्यकर्तव्यानि आवश्यकानि निश्चयक्रियाः सर्व-- कर्मनिर्मूलनसमर्थनियमाः । लोचो--लोचः हस्ताभ्यां मस्तककूर्चगतबालोत्पाटः । आचेलक-चेलं वस्त्रं, उपलक्षणमात्रमेतत् , तेन सर्वपरिग्रहः श्रामण्यायोग्यः चेलशब्देनोच्यते, न विद्यते चेलं यस्यासावचेलकः अचेलकस्य भावोऽचेलकत्वं वस्त्राभरणादिपरित्यागः। अण्हाणं-अस्नानं जलसेकोद्वर्तनाभ्यंगादिवर्जनम् । खिदिसयणं-क्षितौ पृथिव्यां तृणफलकपाषाणादौ शयनं स्वपनं क्षितिशयनं स्थंडिलशायित्वम् । अदंतघंसणं चेव-दन्तानां घर्षणं मलापनयनं दन्तघर्षणं न दन्तघपणं अदन्तघर्षणं ताम्बूलदन्तकाष्ठादिवर्जनम् । चशब्दः समुच्चयार्थः । एवकारोऽवधारणार्थः । अदन्तघर्षणमेव च । ठिदिभोयणं-स्थितस्योर्ध्वतनोः चतुरंगुलपादान्तरस्य भोजनम् । एयभत्तं-एकं च तद्भक्तं चैकभक्तं, एकवेलाहारग्रहणम् । मूलगुणा-मूलगुणा उत्तरगुणाधारभूताः । अहवीसा दु-अष्टाविंशतिः तु शब्दोऽवधारणार्थः, अष्टभिरधिका विंशतिरष्टाविशतिरष्टाविंशतिरेव मूलगुणा नोनाः, नाप्यधिका इति । ..१ अस्य स्थाने जानोरिति पोठः ।
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 522