Book Title: Muktivad
Author(s): Gadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 246
________________ परिशिष्ट - १ चाहिकण्टकापनयादौ प्रवृत्तिदर्शनात् । क्षेमरूपञ्च साधनत्वं लब्धपरिरक्षणं सिद्धस्योत्तरकालसत्त्वनिर्वाहकत्वम् प्रागभावस्याप्युत्तरोत्तरकालसम्बन्धः प्रतियोग्युत्पादविरोधिनिर्वाह्यः । दुःखोत्पादविरोधी च दुःखबीजीभूताधर्मनाशहेतुरात्मतत्त्वज्ञानमेवेति तत्साध्यत्वं दुःखप्रागभावस्येति प्राभाकाराणां मतम् । २१५ (९) तदयुक्तम् । निर्विशेषितदुःखप्रागभावस्याप्युत्तरकालसम्बद्धस्य संसारदशासाधारणतया स्वसमानाधिकरणदुःखासमानकालीनदुःखध्वंसविशिष्ट एवासौ मोक्षरूपो वाच्यः । तादृशश्चाप्रसिद्धः मुक्तस्य दुःखानुत्पत्त्या मुक्तिदशायां तत्प्रागभावासत्त्वात् । अनागतस्यैव प्रागभावप्रतियोगित्वात् । दुःखं मे माभूदित्यादिकामना च उत्तरोत्तरकालसम्बन्धविशिष्टदुःखात्यन्ताभावविषयिण्येव, नित्यत्वेऽपि तस्य प्रागभाववत् साध्यत्वमक्षतमेव । दुःखप्रागभावाभावविशिष्टदुःखात्यन्ताभावो मोक्षः, सुषुप्त्यादिदशायां विशेषणाभावात् नातिप्रसङ्ग इति तु सुवचम् । क्षेमेति । क्षेमसामान्यसाधनमिदमिति ज्ञानं प्रवृत्तिजनकमिति भावः । अहिः सर्पस्तस्यापनयनं= तज्जन्यारिष्टनिवारणम् कण्टकापनयनं = तद्बहिःकरणादि इत्यर्थः । प्रवृत्तिदर्शनादिति । तथा च प्रायश्चित्तादिप्रवृत्तेरुद्देश्यत्वं न हि दुःखध्वंसे सम्भवति गोवधादिसर्पादिजन्यदुःखस्य तदानीमनुत्पत्तेः । अत्यन्ताभावस्य च नित्यत्वेन स्वत एव सत्तानिर्वाहात् न तत्र पुरुषव्यापारोपयोगः एवञ्च दुःखप्रागभावस्यैव प्रवृत्त्युद्देश्यत्वमिति भावः । प्रतियोग्युत्पादो -दुःखोत्पादस्तस्य विरोधिना तत्त्वज्ञानेन निर्वाह्य:ह्यः = साध्यः तत्साध्यत्वं तत्प्रयोज्योत्तरकालसम्बन्धकत्वम् इति यावत् । (९) दूषयति-तदयुक्तमिति । अनागतस्यैवेति । जनिष्यमाणस्येत्यर्थः । प्रागभावप्रतियोगित्वादिति । अन्यथा तादृशप्रागभावस्य नित्यत्वेनात्यन्ताभावत्वापत्तिः, नि:प्रतियोगिकत्वेन चाभावत्वानुपपत्तिश्च स्यादिति भावः । नन्वेवं तर्हि दुःखं मे माभूदिति कामनाया निर्विषयतया प्रेक्षावतां प्रायश्चित्तादौ प्रवृत्तिर्नोत्पद्येतेत्यत आह-दुःखं मे माभूदिति । तस्येति । तस्यात्यन्ताभावस्य । अत्रेदं विचार्यते । ननु गगनादाविव सदातनात्यन्ताभावेऽपि कालसम्बन्धस्य स्वत एव सम्भवात् न तत्र पुरुषव्यापारोपयोग इति कुतस्तस्य क्षेमसाध्यत्वम् ? प्रागभावस्य तु प्रतियोगिनाश्यतया प्रतियोग्युत्पत्तेस्तत्र कालसम्बन्धाभावप्रयोजकत्वेन, प्रतियोग्युत्पत्तिविरोधिव्यापारस्य च तत्र कालसम्बन्धप्रयोजकत्वं निरपवादमवेति चेन्न अत्यन्ताभावे सामान्यतः कालसम्बन्धित्वस्य स्वत एव सम्भवेऽपि अधिकरणविशेषावच्छेद्यकालसम्बन्धित्वे पुरुषव्यापारोपयोगस्यावश्यकत्वात् । न चेदमप्रामाणिकम् यथा घटाभावादौ तत्तद्भूतलाद्यवच्छेद्यकालसम्बन्धित्वस्य तत्तद्भूतलनिरूपितदैशिक सत्त्वप्रयोजकघटानयनविरोधिव्यापारप्रयोज्यत्वम्, तादृशकालसम्बन्धाभावस्य च घटानयनप्रयोज्यत्वम् तद्वदिहापि दुःखं मे माभूदिति कामनाया दुःखात्यन्ताभावे तत्तत्स्वात्मावच्छेद्यकालसम्बन्धस्यैव विषयत्वेन दुःखोत्पत्तिविरोधिव्यापारप्रयोज्यत्वस्यावश्यकत्वात्, अन्यथा सर्वदैव भूतले घटो नास्तीति प्रतीतिप्रसङ्ग इति ॥ ननु तथापि आत्यन्तिकं दुःखं मे मा भूदिति मोक्षविषयककामनायाः को विषय इत्यत्राहदुःखप्रागभावाभावविशिष्टेति । सुषुप्तिकाले तु दुःखप्रागभावसत्त्वाद्विशेषणाभावाद्विशिष्टविरहेण नातिप्रसङ्ग इत्याह- सुषुप्तीति ।

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285