________________
परिशिष्ट - १
चाहिकण्टकापनयादौ प्रवृत्तिदर्शनात् । क्षेमरूपञ्च साधनत्वं लब्धपरिरक्षणं सिद्धस्योत्तरकालसत्त्वनिर्वाहकत्वम् प्रागभावस्याप्युत्तरोत्तरकालसम्बन्धः प्रतियोग्युत्पादविरोधिनिर्वाह्यः । दुःखोत्पादविरोधी च दुःखबीजीभूताधर्मनाशहेतुरात्मतत्त्वज्ञानमेवेति तत्साध्यत्वं दुःखप्रागभावस्येति प्राभाकाराणां मतम् ।
२१५
(९) तदयुक्तम् । निर्विशेषितदुःखप्रागभावस्याप्युत्तरकालसम्बद्धस्य संसारदशासाधारणतया स्वसमानाधिकरणदुःखासमानकालीनदुःखध्वंसविशिष्ट एवासौ मोक्षरूपो वाच्यः । तादृशश्चाप्रसिद्धः मुक्तस्य दुःखानुत्पत्त्या मुक्तिदशायां तत्प्रागभावासत्त्वात् । अनागतस्यैव प्रागभावप्रतियोगित्वात् । दुःखं मे माभूदित्यादिकामना च उत्तरोत्तरकालसम्बन्धविशिष्टदुःखात्यन्ताभावविषयिण्येव, नित्यत्वेऽपि तस्य प्रागभाववत् साध्यत्वमक्षतमेव । दुःखप्रागभावाभावविशिष्टदुःखात्यन्ताभावो मोक्षः, सुषुप्त्यादिदशायां विशेषणाभावात् नातिप्रसङ्ग इति तु सुवचम् ।
क्षेमेति । क्षेमसामान्यसाधनमिदमिति ज्ञानं प्रवृत्तिजनकमिति भावः । अहिः सर्पस्तस्यापनयनं= तज्जन्यारिष्टनिवारणम् कण्टकापनयनं = तद्बहिःकरणादि इत्यर्थः । प्रवृत्तिदर्शनादिति । तथा च प्रायश्चित्तादिप्रवृत्तेरुद्देश्यत्वं न हि दुःखध्वंसे सम्भवति गोवधादिसर्पादिजन्यदुःखस्य तदानीमनुत्पत्तेः । अत्यन्ताभावस्य च नित्यत्वेन स्वत एव सत्तानिर्वाहात् न तत्र पुरुषव्यापारोपयोगः एवञ्च दुःखप्रागभावस्यैव प्रवृत्त्युद्देश्यत्वमिति भावः । प्रतियोग्युत्पादो -दुःखोत्पादस्तस्य विरोधिना तत्त्वज्ञानेन निर्वाह्य:ह्यः = साध्यः तत्साध्यत्वं तत्प्रयोज्योत्तरकालसम्बन्धकत्वम् इति यावत् ।
(९) दूषयति-तदयुक्तमिति । अनागतस्यैवेति । जनिष्यमाणस्येत्यर्थः । प्रागभावप्रतियोगित्वादिति । अन्यथा तादृशप्रागभावस्य नित्यत्वेनात्यन्ताभावत्वापत्तिः, नि:प्रतियोगिकत्वेन चाभावत्वानुपपत्तिश्च स्यादिति भावः । नन्वेवं तर्हि दुःखं मे माभूदिति कामनाया निर्विषयतया प्रेक्षावतां प्रायश्चित्तादौ प्रवृत्तिर्नोत्पद्येतेत्यत आह-दुःखं मे माभूदिति । तस्येति । तस्यात्यन्ताभावस्य । अत्रेदं विचार्यते । ननु गगनादाविव सदातनात्यन्ताभावेऽपि कालसम्बन्धस्य स्वत एव सम्भवात् न तत्र पुरुषव्यापारोपयोग इति कुतस्तस्य क्षेमसाध्यत्वम् ? प्रागभावस्य तु प्रतियोगिनाश्यतया प्रतियोग्युत्पत्तेस्तत्र कालसम्बन्धाभावप्रयोजकत्वेन, प्रतियोग्युत्पत्तिविरोधिव्यापारस्य च तत्र कालसम्बन्धप्रयोजकत्वं निरपवादमवेति चेन्न अत्यन्ताभावे सामान्यतः कालसम्बन्धित्वस्य स्वत एव सम्भवेऽपि अधिकरणविशेषावच्छेद्यकालसम्बन्धित्वे पुरुषव्यापारोपयोगस्यावश्यकत्वात् । न चेदमप्रामाणिकम् यथा घटाभावादौ तत्तद्भूतलाद्यवच्छेद्यकालसम्बन्धित्वस्य तत्तद्भूतलनिरूपितदैशिक सत्त्वप्रयोजकघटानयनविरोधिव्यापारप्रयोज्यत्वम्, तादृशकालसम्बन्धाभावस्य च घटानयनप्रयोज्यत्वम् तद्वदिहापि दुःखं मे माभूदिति कामनाया दुःखात्यन्ताभावे तत्तत्स्वात्मावच्छेद्यकालसम्बन्धस्यैव विषयत्वेन दुःखोत्पत्तिविरोधिव्यापारप्रयोज्यत्वस्यावश्यकत्वात्, अन्यथा सर्वदैव भूतले घटो नास्तीति प्रतीतिप्रसङ्ग इति ॥ ननु तथापि आत्यन्तिकं दुःखं मे मा भूदिति मोक्षविषयककामनायाः को विषय इत्यत्राहदुःखप्रागभावाभावविशिष्टेति । सुषुप्तिकाले तु दुःखप्रागभावसत्त्वाद्विशेषणाभावाद्विशिष्टविरहेण नातिप्रसङ्ग इत्याह- सुषुप्तीति ।