________________
२१६
मुक्तिवादः
(१०) अथ यथा दूरस्थसरोऽवगाहनादिसाध्यस्य तदुपायपूर्वकत्वादिविशेषणविशिष्टसन्तापशान्त्यादिरूपफलस्य अनायाससिद्धवृत्त्यादितो निर्वाहेऽपि विशेष्य सन्तापशान्त्यादिरूपफलस्य वृष्ट्यादितो निर्वाहप्रतिसन्धाने दूरस्थसरोऽवगाहनादौ तज्जन्यश्रमे बलवद्वेषान्न प्रवृत्तिः, तथा दुःखनिवृत्तिमात्रफलस्य लघूपायतो निर्वाहप्रतिसन्धानेनात्यन्तिकदुःखनिवृत्तिरूपमोक्षार्थितयाऽपि बहुतरश्रमानुविद्धयोगाभ्यासादौ प्रवृत्त्यनुपपत्तिरिति चेन्न । यथा सुखमात्रस्य लघूपायत्वप्रतिसन्धानेऽपि दुःखासम्भिन्नसुखरूपस्वर्गार्थितया बहुवित्तव्ययायाससाध्ययागादावपि प्रवर्तन्ते दुःखासम्भिन्नत्वरूपविशेषणपुरस्कारेण उत्कटरागसंभवात् बहुवित्तव्ययायासादौ उत्कटद्वेषानुदयात्, तथाऽऽत्यन्तिकत्वरूपविशेषणपुरस्कारेण उत्कटरागस्यानुभविकतया तद्विशिष्टफलार्थितया बहुतरश्रमाऽनुविद्धेऽपि मोक्षोपाये प्रवृत्तिसम्भवात् । उपादेयतानवच्छेदकसरोऽवगाहनपूर्वकत्वादिविशेषणविशिष्टसन्तापशान्त्यादिफले रागौत्कट्यविरहात् उक्तस्थले सरोऽवगाहनादौ प्रवृत्तेरयोगात् ।
(११) केचित्तु दु:खध्वंसस्य कारणान्तरादेव सम्भवेन न तस्य तत्त्वज्ञानजन्यत्वमित्यालोच्य दुःखबीजदुरितनाशस्यैवात्यन्तिकस्य मोक्षरूपतां स्वीकुर्वन्ति । तस्यात्यन्तिकत्वं स्वसमानाधिकरणदुरितासमानकालीनत्वमेव । भोगजन्ये प्रायश्चित्तजन्ये च दुरितनाशेऽतिप्रसङ्गभङ्गाय तद्विशेषणोपादानम् । न
(१०) ननु -अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ इति न्यायेन यत्र विशेष्यस्य लघूपायसाध्यत्वं विशिष्टस्य च गुरूपायसाध्यत्वं तत्र बह्वायासरूपोपाये द्वेषोदयेनाल्पायाससाध्ये विशेष्ये एव प्रवृत्तिदर्शनात् बह्वायाससाध्यात्यन्तिकत्वविशिष्टदुःखनिवृत्तिरूपे मोक्षे कथं प्रवृत्तिरिति आशयेन दृष्टान्तप्रदर्शनपूर्वकमाक्षिपति-अथेति । तदुपायेति । सरोऽवगाहनरूपो य उपायः स पूर्वो यस्य तत् सरोऽवगाहनपूर्वकम् तस्य भाव इत्यर्थः । यत्र विशेषणस्यानुपादेयतया तद्वतो विशिष्टस्यापि नोत्कटेच्छाविषयता तत्रैव तत्प्रयोजके बह्वायाससाध्ये उपाये न प्रवृत्तिः यत्र तु उपादेयविशेषणविशिष्टस्योत्कटेच्छाविषयता तत्र तद्विशिष्टसम्पादकबह्वायासेऽपि प्रवृत्तिर्भवत्येवेति निदर्शनप्रदर्शनपूर्वकं समाधत्ते-यथेत्यादि । दुःखासम्भिन्नत्वरूपविशेषणेति । उपादेयदुःखासम्भिन्नत्वविशेषणविशिष्टस्य सुखस्योत्कटरागविषयत्वेन यथा बहुवित्तव्ययायासादौ नोत्कटद्वेषः तथोपादेयाऽऽत्यन्तिकत्वरूपविशेषणविशिष्टस्य दुःखनिवृत्तिरूपमोक्षस्योत्कटरागवत्त्वेन बहुतरश्रमसाध्ये मोक्षोपायभूते योगाभ्यासादावुत्कटद्वेषासम्भवात् प्रवृत्तिरक्षतेति भावः । उपादेयतेति । उपादेयताइच्छाया अविषयीभूतो योऽभावस्तत्प्रतियोगिता । दूरस्थतयोपादेयतानवच्छेदकीभूतसरोऽवगाहनपूर्वक त्वविशेषणविशिष्टसन्तापशान्तिफलके उत्कटरागाभावेनोक्तस्थले सरोऽवगाहनादौ प्रवृत्तेरसम्भवात् दृष्टान्तवैषम्यमिति भावः ।
तत्त्वज्ञानजन्य एव मोक्ष इति केषाञ्चिन्मतमाह-केचित्त्विति । कारणान्तरादेव-स्वोत्तरोत्पन्नस्वसमानाधिकरणविशेषगुणादेव । तन्मतेऽऽत्यन्तिकत्वं निर्वक्ति-तस्येति । शङ्कते-न चेति । तत्तच्छरीरारम्भककर्मणां स्वभोगनिर्वाहार्थं तत्तच्छरीरप्रयोजकानां तत्तच्छरीरावच्छेद्यभोगोपधायकानां वा कर्मणामित्यर्थः । अत एव तादृशकर्मणां भोगनाश्यत्वादेव । सुखोपाये इत्यादि । अन्यथा तादृशप्रवृत्तिनिवृत्तिभ्यां कल्प्ययोः सुखदुःखयोरनुपपत्तेः, अदृष्टरूपकारणविरहादिति भावः । तथा च तत्त्वज्ञानजन्यदुरितनिवृत्तेरपि स्व